पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२२
शिशुपालवधे

 अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनान्तयैकया ।
 विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तत्॥३६॥

 अधीति ॥ उच्चकैर्निजनिकेतं स्वसौधमधिरूढया आरूढवत्या पवनेनावधूतः कम्पितो वसनान्तो वस्त्राञ्चलो यस्यास्तया एकया कदाचिदङ्गनया हेतुना तन्नगरमिन्द्रप्रस्थं माधवे उपयात्यागच्छति । यातेर्लटः शत्रादेशः। पताकया वैजयन्त्या विहितोपशोभं कृतशोभमिवालंकृतमिवेत्युत्प्रेक्षा । व्यरोचत व्यराजत । कृत्स्नस्यापि नगरस्य स्वयं पताकेव बभावित्युत्प्रेक्षा । तस्याः सकलपौराङ्गनातिशायि लावण्यं व्यज्यत' इत्यलंकारेण वस्तुध्वनिः । अत्रापि प्रासादारोहणं पूर्मवत्कुतूहलमेव ॥३६॥

 करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसुमैरवाकिरन् ।
 अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः ॥३७॥

 करेति ॥ प्रतिवेश्म वेश्मनि । विभक्त्यर्येऽव्ययीभावः । अङ्गनाः पुरंध्र्यः । करयुग्मान्यञ्जलयस्तानि पद्ममुकुलानीवेत्युपमितसमासः । तैरपवर्जितैरावजितैरत एवावदीर्णैर्विभिन्नैः शुक्तिपुटैः शुक्तिकोशैर्मुक्ता उत्सृष्टा ये मौक्तिकप्रकरा मुक्तानिकरास्तैरिव स्थितैरित्युत्प्रेक्षा । लाजाः, कुसुमानीव तैर्लाजकुसुमैः । आचारलाजैरित्यर्थः । प्रियं रथाङ्गं चक्रं यस्य तं प्रियरथाङ्गं चक्रिणम् । हरिमित्यर्थः । अवाकिरन व्याक्षिपन् , मङ्गलार्थमित्यर्थः ॥ ३७॥

 हिममुक्तचन्द्ररुचिरः सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः।
 अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ३८

 हिमेति ॥ हिममुक्तः शिशिरापगमाद्धिमान्निर्मुक्तो यश्चन्द्रः स इव । रुचिः, अन्यत्र तेन रुचिरः । पद्मेन, पद्मया च सह वर्तत इति सपद्मः स एव सपद्मकः पद्महस्तः, सश्रीकश्च । शैषिकः स्वार्थिको वा कप् प्रत्ययः । अन्यत्र सपङ्कजः । शैषिकः कप्प्रत्ययः । द्विजान्ब्राह्मणान् , अन्यत्र पक्षिगणान् कोकिलादीन् मदयन् हर्षयन् जनितमीनकेतनः प्रद्युम्नजनकः, अन्यत्र मदनोद्दीपक इत्यर्थः । प्रसादिता अनुगृहीताः सुरा देवा येन सः । अन्यत्र प्रसादिता निर्मलीकृता सुरा मदिरा यस्मिन् स माधवो हरिर्वसन्तश्च । 'माधवस्तु वसन्ते स्याद्वैशाखे गरुडध्वजे' इति विश्वः । प्रमदैव जनस्तस्य प्रमदाजनस्य । जातावेकवचनम् । चिराय महोत्सवोऽभवत् । तद्वदानन्दकरोऽभूदित्यर्थः । इहानन्दकरत्वसाम्येन माधव महोत्सवरूपणाद्रूपकसिद्धिः । श्लेषस्तु हरिवसन्तयोरिह नास्त्येव । प्रकृताप्रकृतश्लेषे विशेष्यश्लेषायोगात् । किंतु शब्दशक्तिमूलो ध्वनिरेव ॥ ३८ ॥

 धरणीधरेन्द्रदुहितुर्भयादसौ विषमेक्षणः स्फुटममूर्न पश्यति ।
 मदनेन वीतभयमित्यधिष्ठिताः क्षणमीक्षते स्म स पुरोविलासिनीः॥

 धरणीति ॥ असौ स्वदाहको विषमेक्षणस्त्र्यक्षः धरणीधरेन्द्रदुहितुः पार्वत्याः सपत्नीशङ्किन्या इति भावः । 'भीत्रार्थानां भयहेतुः' (१।४।२५) इति पञ्चमी