पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१६
शिशुपालवधे

 इभकुम्भतुङ्गकठिनेतरेतरस्तनभारदूरविनिवारितोदराः ।
 परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ॥१६॥

 इभेति ॥ इभकुम्भा इव ये तुङ्गाः कठिनाश्च इतरेतरासां स्तनभारास्तैर्दूरे विनिवारितान्यतिकार्यादस्फुटतया स्थापितान्युदराणि यासां ताः । 'स्वाङ्गाच्च-' (४।१०५४) इति विकल्पादनीकारः । परिफुल्लगण्डफलकाः हर्षपुलकितगण्ड- स्थलाः कुकुरकौरवस्त्रियो यादवपाण्डवागनाः परस्परं परिरेभिर आश्लिष्टवत्यः । 'परिरम्भः परिष्वङ्ग आश्लेष उपगूहनम्' इत्यमरः । परिफुल्लेति फुल्लतेः पचाद्यजन्तं न तु फलतेः निष्टान्तम् । अनुपसर्गादिति कथनविरोधात् ॥ १६ ॥

  रथवाजिपत्तिकरिणीसमाकुलं
   तदनीकयोः समगत द्वयं मिथः ।
  दधिरे पृथक्करिण एव दूरतो
   महतां हि सर्वमथवा जनातिगम् ॥ १७ ॥

 रथेति ॥ रथवाजिपत्तिकरिणीभिः समाकुलं संकीर्णम् । करिणीग्रहणं पुंगज- व्यावृत्त्यर्थम् । अतो युद्धानर्हतया तासामसेनाङ्गत्वान्न द्वन्द्वैकवद्भावः । तदनीकयोः तयोर्यादवपाण्डवसैन्ययोः। 'वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । द्वयं मिथश्चान्योन्यं समगत संगतम् । गमेर्लङि ‘समो गम्यृच्छि-' (१।३।२९) इत्यादिनात्मनेपदं 'वा गमः' (१॥२॥१३) इति सिचः कित्त्वात् 'अनुदात्तोपदेश-' (६।४।३७) इत्यादिनानुनासिकलोपः 'हस्वादङ्गात्' (८।२।२७) इति सकारलोपः। करिणः पुंगजाः दूरत एव पृथगसंगतं दधिरे घृताः । स्थापिता इत्यर्थः । अथ वा किमत्र चित्रमिति भावः । महतां महासत्त्वानां संबन्धि सर्वं चेष्टितमिति शेषः । जनानतिगच्छतीति जनातिगमतिजनम् । सर्वलोकविलक्षणमिति भावः । सामा- न्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ १७ ॥

 अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः ।
 अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः १८

 अधीति ॥ अथ हरिरधिरुह्यतां रथ आरुह्यतामित्येवं महीभृता धर्मराजेनोदित उक्तः सन् । वदेः कर्मणि क्तः । 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । कपिकेतुनार्जुनेनार्पितकरो दत्तहस्तः सन् । अवलम्बितोऽवष्टब्ध ऐलविलस्य कुबेरस्य पाणिपल्लवो हस्तो येन स मेघवाहन इन्द्रो मेघमिव रथं श्रयति स्म आरूढ- वानित्यर्थः । उपमा ॥१८॥

 रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः ।
 अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः॥१९॥

 रथमिति ॥ किंचेति चार्थः (१)। अथ रथारोहणानन्तरं रथमास्थितस्यारूढस्य

पाठा०-१ 'घटित'.