सुषुप्सुना स्वप्तुमिच्छुना । स्वपेः सन्नन्तादुप्रत्ययः । 'रुदविद-' (१।२।८) इत्यादिना सनः कित्त्वात् 'वचिस्वपि-' (६।१।१५) इत्यादिना संप्रसारणम् । मृगेन्द्रेण सिंहेन समया समीपे । 'समयानिकषाशब्दौ समीपे संप्रकीर्तितौ' इति सज्जनः । यातो गच्छतोऽपि । यातेर्लटः शत्रादेशः । सैन्यात् सेनातः। भीत्रार्थानां भयहेतुः' (१।४।२५) इत्यपादानत्वम् । न विव्यथे न बिभ्ये । 'व्यथ भयसंचलनयोः' इति धातोर्भावे लिट् । अथवा । तथा हीत्यर्थः । अन्यथा भीतत्वे कथं सुराजंभवं सुखेन राज्ञा भूयते । न कथमपीति भावः । राजा चायं मृगाणामिति भावः । 'कर्तृकर्मणोश्च भूकृञोः' (३।३।१२७) इति कर्तरीषदादौ चोपपदे भवतेः खल्प्रत्यये नलोपमुमागमौ । अर्थान्तरन्यासः ॥ ५२ ॥
उत्सेधनिर्धूतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहसाम् ।
नागैरधिक्षिप्तमहाशिलं मुहुर्बलं बभूवोपरि तन्महीभृताम् ॥५३॥
उत्सेधेति ॥ नागैर्गजैः अधिक्षिप्तास्तिरस्कृता महाशिला येन तद्बलं सैन्यं ध्वजैरुत्सेधेनौन्नत्येन निर्धूता अवगणिता महीरुहो येषु तेषाम् । 'उत्सेधश्चोच्छ्रयश्च सः' इत्यमरः । जनैरवरुद्ध प्रतिबद्धमुद्धतमुद्वेलं सिन्धुरंहो नदीवेगो येषां तेषां महीभृतां पर्वतानामुपरि मुहुर्बभूव । मार्गवशाद्भूयसो भूधरान् मुहुरारुरोहेत्यर्थः । 'हयोघरुद्ध' इति पाठे हयौघेन घोटकसमूहेन रुद्धमित्यादि पूर्ववत् । अत्रावरोहणवदुत्कर्षश्चोपरिभावो विशेषणवैभवात्प्रतीयत इति तदभेदेनोपरिभावस्य बलभूधरविशेषणपदार्थहेतुकत्वाच्छ्लेषप्रतिभोत्थापितकाव्यलिङ्गविशेषः ॥ ५३ ॥
श्मश्रूयमाणे मधुजालके तरोर्गजेन गण्डं कषता विधूनिते ।
क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ॥ ५४॥
श्मश्रूयेति ॥ तरोर्वृक्षस्य श्मश्रूयमाणे श्मश्रुवदाचरति । तद्वदालम्बमान इत्यर्थः । उपमालंकारः । श्मश्रुशब्दादाचारे क्यङन्ताल्लटः शानजादेशः 'अकृत्सार्वधातुकयोः' (७।४।२५) इति दीर्घः । गण्डं कपोलं कषता तरुस्कन्धे कण्डूयमानेन गजेन मधुजालके क्षौद्रपटले विधूनिते कम्पिते सति । धूञो ण्यन्तात्कर्मणि क्तः । 'धूञ्प्रीञोर्नुग्वक्तव्यः' (वा०) इति नुगागमः । अक्षुद्रतराभिरतिस्थूलाभिः क्षुद्राभिः सरघाभिः । 'क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका' इत्यमरः । विदश्यमानेन चञ्चुभिस्तुद्यमानेन जनेन समाकुलं व्यग्रं यथा तथा दुद्रुवे पलायितम् । भावे लिट् । स्वभावोक्तिरुक्तोपमासंसृष्टा ॥ ५४ ॥
नीते पलाशिन्युचिते शरीरवद्गजान्तकेनान्तमदान्तकर्मणा ।
संचेरुरात्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवंगमाः ॥ ५५ ॥
नीत इति ॥ उचिते परिचिते पलाशिनि द्रुमे । 'पलाशी दुद्रुमागमाः' इत्यमरः । शरीरवत्पूर्वशरीरवत् । 'तत्र तस्येव' (५।१।११६) इति वतिप्रत्ययः । अदान्तकर्मणा दुर्दान्तव्यापारेण गजोऽन्तक इवेत्युपमितसमासः साहचर्यात् । तेन
गजान्तकेनान्तं नाशं नीते गमिते सति प्लवैर्गच्छन्तीति प्लवंगमाः कपयः । 'गमश्च'