सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथोत्तरार्धम् ।


एकादशः सर्गः।

 अथ प्रस्तुतं प्रभातवर्णनं प्रारभते-

  श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः
   सततमृषभहीनं भिन्नकीकृत्य षड्जम् ।
  प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः
   परिणतिमिति रात्रेर्मागधा माधवाय ॥१॥

 श्रुतीति ॥ नास्ति कार्यस्येत्यकाकुः अविकृतध्वनिः । 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः' इत्यमरः । श्रावयतीति श्रावको दूरध्वनिः । स्निग्धो मधुरः कण्ठः स्वरो येषां ते अकाकुश्रावकस्निग्धकण्ठाः । रक्तकण्ठा इत्यर्थः । मागधा वैतालिकाः । श्रुतयो नाम षड्जादिस्वरारम्भकावयवाः शब्दविशेषाः। तदुक्तम्-'प्रथमश्रवणाच्छब्दः श्रूयते ह्रस्वमात्रिकः । सा श्रुतिः संपरिज्ञेया स्वरावयवलक्षणा ॥' इति । ताभिः श्रुतिभिः समधिकं बहुलं षड्जविशेषणं, पञ्चमविशेषणं वा, उभयोरपि तथात्वात् । तदुक्तम्- 'चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः । द्वे द्वे निषादगान्धारौ त्रीस्त्रीनृषभधैवतौ ॥' इति षड्जो मयूरस्य कूजितानुकारी स्वरविशेषः । 'षड्जं मयूरो वदति' इति लक्षणात् । तं षड्जं भिन्न एव भिन्नकस्तं कृत्वा भिन्नकीकृत्य । तत्कालनिषिद्धस्वरासंकीर्णं कृत्वेत्यर्थः । पञ्चमो नाम कोकिलकूजितानुकारी स्वरविशेषः । 'पिकः कूजति पञ्चमम्' इति लक्षणात् । तं पञ्चमं पीडयन्तः । तत्कालनिषेधात्परित्यजन्त इत्यर्थः । सततं वीणादिवाद्ययुक्तम् । 'ततं वीणादिकं वाद्यम्' इत्यमरः । ऋषभोऽपि वृषभनर्दितानुकारी स्वरभेद एव । 'गावस्त्वृषभभाषिणः' इति लक्षणात् । तेन हीनम् । तस्यापि तत्कालनिषिद्धत्वादित्यर्थः । सततं ऋषभहीनं च यथा तथा रात्रेः परिणतिम् । परिवृत्तिमित्यर्थः । इति वक्ष्यमाणप्रकारेणोच्चैर्यथा तथा माधवाय कृष्णाय । क्रियाग्रहणात्संप्रदानत्वम् । प्रणिजगदुः । गानेनाचख्युरित्यर्थः । नेर्गदनद-' (८।४।१७) इत्यादिना णत्वम् । पञ्चमादिनिषेधे भरतः । 'प्रभाते सुतरां निन्द्य ऋषभः पञ्चमोऽपि च । जनयेत्प्रधनं ह्युक्षा पञ्चत्वं पञ्चमोऽपि च ॥ पञ्चमस्य विशेषोऽयं कथितः पूर्वसूरिभिः । प्रगे प्रगीतो जनयेद्दशनस्य विपर्ययम् ॥' इति । वृत्त्यनुप्रासोऽलंकारः । अस्मिन्सर्गे मालिनी वृत्तम् । 'ननमयययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् ॥१॥