पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५३
दशमः सर्गः ।

तितः । महीयो महत्तरं धाम केलिगृहं कमलासखेन लक्ष्मीभर्त्रा विष्वक्सेनेन जनार्दनेन विष्णुना सेवितस्याधिष्ठितस्य युगान्तपयोधेः साम्यमाप इत्युपमालंकारः । युगान्तविशेषणं विविक्तताद्योतनार्थम् । एतेनेच्छाविहारतोक्ता ॥ ५५ ॥

 अथ विश्रम्भविहाराण्येवाह-

 आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वितयेन ।
 रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ॥५६॥

 आवृतानीति ॥ उच्चैरुन्नतेनोरसिजद्वितयेन निरन्तरं नीरन्ध्रमावृतानि संवृतान्यपि योषितां हृदयानि वक्षांसि, चेतांसि च इत इतो विमृशद्भिरितस्ततः परामृशद्भिः रागिणां पाणिभिर्जगृहिरे गृहीतानि । निगूढं वस्तु हस्तपरामर्शाल्लभ्यत इति एकत्र भावः, अन्यत्र कृच्छ्रलब्धः प्रियकरस्पर्शस्तासां हृदयग्राह्योऽभूदिति भावः । नैरन्तर्येण प्रतिबध्नतोरपि कुचयोः कथंचिदन्तरं संपाद्य हृदयानि स्पृष्टान्येवेति वाक्यार्थः । अत्र द्वितयानामपि हृदयानां प्रकृतत्वात्केवलप्रकृतश्लेषः ॥५६॥

 कामिनामसकलानि विभुग्नैः खेदवारिमृदुभिः करजाः ।
 अक्रियन्त कठिनेपु कथंचित्कामिनीकुचतटेषु पदानि ।। ५७ ॥

 कामिनामिति ॥ स्वेदवारिणा सात्विकेनाङ्गुलीस्वेदेन मृदुभिः कोमलतां गतैरत एव विभुग्नैर्विनम्रैः कामिनां करजाग्रैर्नखाग्रैः कठिनेषु कामिनीकुचतटेषु असकलान्यसमग्राणि पदानि क्षतानि कथंचिदक्रियन्त कृतानि कठिनेषु मृदूनां पदलाभो दुःसंपाद्य इति भावः । नखक्रिया प्रवृत्तेत्यर्थः । अत्र कुचानामीदृक्काठिन्यासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ ५७ ॥

 सोष्मणः स्तनशिलाशिखराग्रादात्तधर्मसलिलैस्तरुणानाम् ।
 उच्छ्वसत्कमलचारुषु हस्तैर्निम्ननाभिसरसीषु निपेते ॥ ५८ ॥

 सोष्मण इति ॥ सोष्मणो यौवनोष्मयुक्तात् स्तनावेव शिलाशिखरे तयोरग्रादुपरिभागादात्तघर्मसलिलैरुष्णदेशविहारात् प्राप्तस्वेदैः तरुणानां हस्तैरुच्छ्वसत्कमलवद्विकचकमलैश्च चारुषु निम्ननाभिष्वेव सरसीषु निपेते निपतितम् । ऊष्मस्विन्नानां कुतश्चिदुन्नतात्पयसि पातो युक्त इति भावः । प्रथमं कुचौ स्पृष्ट्वा ततो नाभिदेशमस्पृशन्नित्यर्थः । अत्र कुचयोः शिलाशिखरत्वेन नाभीनां सरसीत्वेन च रूपणाद्धस्तानामापातिपुरुषत्वरूपणं गम्यत इत्येकदेशविवर्ति रूपकम् ॥ ५८ ॥

 आमृशद्भिरभितो वलिवीचीर्लोलमानवितताङ्गुलिहस्तैः ।
 सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मध्यमभीष्टैः॥ ५९ ॥

 आमृशद्भिरिति ॥ वलयो वीचय इव वलिवीचीरभित आमृशद्भिः लोलमानाश्चलनशीलाः । 'ताच्छील्यवयोवचनशक्तिषु चानश्' (३।२।१२९) इति

चानश् प्रत्ययः । न तु शानच् । लोलतेः परस्मैपदित्वात् । अत एव 'लोलमानादयश्चानशि' इति वामनः । लोलमाना वितताः प्रसारिताश्चाङ्गुलयो येषां ते तथा-


शिशु० २२