पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
शिशुपालवधे

 संजहारेति ॥ तरुणेषु युवसु विरोधं प्रणयकलहं विरहय्य विहाय । रहयतेः स्वार्थण्यन्तात् क्त्वा तस्य ल्यप् 'ल्यपि लघुपूर्वात्' (६।४।५६) इत्ययादेशः। सहसा परिरब्धाः प्रेयस्यो यैस्तेषु परिरब्धप्रेयसीषु आश्लिष्टवधूकेषु सत्सु । 'ईयसश्च' (५।४।१५६) इति कपोऽभावः । 'ईयसो बहुव्रीहौ प्रतिषेधो वक्तव्यः' (वा०) इत्युपसर्जनस्य ह्रस्वनिषेधः । रतिपतिः कामः संहितं प्रागारोपितं महेषु महान्तं शरं स्मितभिन्नक्रोधं स्वयत्नसाफल्यात् स्मितेनोज्झितपूर्वरोषं च यथा तथा आशु संजहार । सिद्धेऽर्थे साधनानवकाशादित्यर्थः । परिरम्भान्तो यूनां विरह इति भावः ॥४४॥

 स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपत्नि रसेन ।
 आत्मनैव रुरुधे कृतिनेव स्वेदसङ्गि वसनं जघनेन ॥४५॥

 स्रंसमानमिति ॥ उपयन्तरि भर्तरि रसेन । रागान्धतयेत्यर्थः । उपसपत्नि सपत्नीसमीपे । समीपार्थेऽव्ययीभावे नपुंसकह्रस्वत्वम् । श्लिष्टवति आश्लिष्टवति सति स्रंसमानं स्पर्शसुखपारवश्याद्भ्रश्यमानं तथापि स्वेदसङ्गि स्वेदेन सात्विकेन सक्तं वध्वा वसनं कृतिना कुशलेन । स्वस्येदं लाघवमिति जानतेवेत्यर्थः । जघनेन कर्त्रा आत्मनैव स्वयमेव रुरुधे रुद्धम् । सा तु न वेत्तीति भावः । स्वेदहेतुकस्य वसनरोधस्य स्वलाघवज्ञानहेतुकत्वमुत्प्रेक्ष्यते ॥ ४५ ॥

 पीडिते पुर उरःप्रतिपेषं भर्तरि स्तनयुगेन युवत्याः।
 स्पष्टमेव दलतः प्रतिनार्यास्तन्मयत्वमभवद्धृदयस्य ॥ ४६ ॥

 पीडित इति ॥ युवत्या युवतेः स्तनयुगेन भर्तरि प्रतिनार्याः पुरोऽग्रे समक्षमेव उरःप्रतिपिष्य उरःप्रतिपेषम् । 'परिक्लिश्यमाने च' (३।४।५५) इति णमुल् 'कृन्मेजन्तः' (१।९।३९) इत्यव्ययसंज्ञा । वक्षः प्रतिपीड्येत्यर्थः । पीडिते सति दलतः ईर्ष्यया दीर्यमाणस्य प्रतिनार्याः सपत्न्या हृदयस्य तन्मयत्वं भर्तृतादात्म्यं स्पष्टमभवदेव । अन्यथा कथमन्यपीडनादन्यदलनमिति भावः । अत एवेयमसंगत्यलंकारोपजीविनी तन्मयत्वोत्प्रेक्षेति संकरः। 'कार्यकारणयोर्भिन्नदेशत्वे स्यादसंगतिः ॥ ४६॥

 दीपितस्मरमुरस्युपपीडं वल्लभे घनमभिष्वजमाने ।
 वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन ॥४७॥

 दीपितेति ॥ वल्लभे दीपितस्मरमुद्दीपितकामं यथा तथा उरस्युपपीडमुरस्युपपीड्य । 'सप्तम्यां चोपपीडरुधकर्ष-' (३।४।४९) इति णमुल् । 'तत्पुरुषे कृति बहुलम्' (६।३।१४) इत्यलुक् । घनं गाढमभिष्वजमाने परिरम्भमाणे सति । 'परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्' इत्यमरः । सुभ्रुवः कुचकुम्भौ कठिनतातिशयेन वक्रतां परिमण्डलता न ययतुर्न प्राप्तौ । अत्र गाढालिङ्गनात् कुचकुम्भयोर्वक्रत्वसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिरलंकारः ॥ ४७ ॥

 संप्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानाम् ।
 आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन् ॥४८॥