पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
शिशुपालवधे

निमित्तकं क्षालितत्वाद्युत्प्रेक्षात्रयं नुशब्दानुवृत्तेः तच्चाप्रसन्नत्वाद्युद्देशिनां क्षालितत्वाद्यनुदेशिभिर्यथासंख्येनान्वयमपेक्षत इति यथासंख्यालंकारेण संकीर्यते ॥ १४ ॥

 सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे ।
 विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥ १५ ॥

 सन्तमिति ॥ मधुमदः प्रमदानामङ्गे वपुषि अन्यत्र 'यस्मात्प्रत्ययविधि:-' (१।४।१३) इत्युक्तलक्षणे प्रकृत्याख्ये शब्दरूपे । चिरं सर्वदा सन्तमेव । एकत्र स्वभावात् , अन्यत्र त्वनेकार्थत्वाद्धातूनामिति भावः । किंचाप्रकृतत्वादप्रस्तुतत्वात् । अप्रसक्तत्वादिति भावः । अप्रकाशितमव्यञ्जितं विभ्रमं विलासं धातौ भूवादिके लीनं गूढमर्थमभिधेयं उपसर्गः प्रादिरिव अदिद्युतद्द्योतयति स्म । श्रुतेः ‘णौ चङ्युपधाया ह्रस्वः' (७।४।१) 'द्युतिस्त्राप्योः संप्रसारणम्' (७।४।६७) इत्यभ्यासस्य संप्रसारणमिकारः । उपसर्गस्य धातुलीनार्थद्योतकत्वमादानसंदानादावनुसंधेयम् । उपमालंकारः ॥१५॥

 सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु ।
 गन्तुमुत्थितमकारणतः स द्योतयन्ति मदविभ्रममासाम् ॥ १६ ॥

 सावशेषमिति ॥ सावशेषाण्योक्तानि पदानि यस्मिंस्तदुक्तमुक्तिर्वाक्यं स्रस्तेषु माल्यवसनाभरणेषूपेक्षाऽनादरः अकारणतोऽकस्मादेव गन्तुमुत्थितमुत्थानं च आसां स्त्रीणां मदविभ्रमं मदविकारं द्योतयन्ति स्म । एतैरनुभावैरासां मदसंचारो ज्ञात इत्यर्थः । अत्रार्थोक्तादीनां खलेकपोतिकया मदद्योतने प्रवृत्तत्वात्कारणाख्यो द्वितीयसमुच्चयः । 'खलेकपोतन्यायेन बहूनां कार्यसाधने । कारणानां समुद्योगः स द्वितीयः समुच्चयः ॥ इति लक्षणात् ॥ १६ ॥

 मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या ।
 वीक्ष्यते स शनकैर्नववध्या कामिनो मुखमधोमुखयैव ॥ १७ ॥

 मद्येति ॥ मद्येन मद्यपानेन मन्दमल्पं विगलन्ती त्रपा यस्य तत् । अत एवेषदुन्मिषितानि पक्ष्माणि लोमानि यस्य तच्चक्षुर्दधत्या नववध्वा नवोढया कामिनः प्रियस्य मुखमधोमुखयैव नमितवदनयैव । 'स्वाङ्गाच्चोपसर्जनात्-' (४।१।५४) इति विकल्पादनीकारः । शनकैरसंभ्रमेण वीक्ष्यते स्म । तिर्यगीक्षितमित्यर्थः । अत्रापि मदमानाभ्यां त्रपैव बलीयसीति मौग्ध्यातिशयोक्तिः । 'समुद्यद्यौवना मुग्धा लज्जापिहितमन्मथा' ॥ १७ ॥

 या कथंचन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे ।
 व्रीडजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः॥१८॥

 येति ॥ या स्त्री कथंचन कृच्छ्रेण सखीवचनेन सखीप्रेरणया प्राक् मदात्पूर्वम् अभिप्रियतमं प्रियतमसमक्षम् । आभिमुख्येऽव्ययीभावः । प्रजगल्भे प्रगल्भते स्म ।

सा स्त्री मधु पिबतीति मधुपा । 'आतोऽनुपसर्गे कः' (३।२।३) व्रीडं जाड्यं