पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
शिशुपालवधे

चतुर्थपादादावेकस्मादक्षराद्वाभ्यां च परतोऽक्षरत्रयावृत्तिलक्षणयोः स्थितत्वात् सजातीययोः संसृष्टिः ॥ १४ ॥

 अजगणन् गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः।
 सति मधावभवन्मदनव्यथा विधुरिता धुरि ताः कुकुरस्त्रियः१५

 अजगणनिति ॥ याः कुकुरस्त्रियो यादवाङ्गनाः गणशो बहुशः । बह्वल्पा- र्थाच्छस् कारकादन्यतरस्याम्' (५।४।४२) इति शस् प्रत्ययः । अग्रतः प्रणतमपि प्रियम् । जातावेकवचनम् । प्रियानित्यर्थः । अभिमानिनीनां भावोऽभिमानिता तया। 'त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः' (वा०)। नाजगणन्न गणयन्ति स्म । गणेश्चौरादिकाण्णौ चङि 'ई च गणः' (७।४।९७) इत्यभ्यासस्य पाक्षिक इत्वा- भावः । ताः कुकुरस्त्रियो मधौ वसन्ते सति प्रवर्तमाने । 'मधुश्चैत्रे वसन्ते च' इति विश्वः । मदनव्यथाविधुरिता विह्वलिताः सत्यः धुरि अग्रेऽभवन्नवर्तन्त । स्वयमेव पुरः प्रवृत्ता इत्यर्थः ॥ १५॥

 कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।
 मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुमुहुर्गतभर्तृकाः ॥१६॥

 कुसुमेति ॥ गतभर्तृका वियोगिन्यः । 'नद्युतश्च' (५।४।१५३) इति कप् । अपराः काश्चिदङ्गनाः कुसुमकार्मुकस्य कामस्य कार्मुके संहितैः द्रुतैर्जवनैः शिलीमुखैः शरैः खण्डितविग्रहाः पाटितशरीराः सत्यो मरणमपि प्रतिपेदिरे । मुहुः पुनःपुनः मुमुहुर्मुमूर्छुरिति किमु वक्तव्यमित्यर्थः ॥ १६ ॥

 अथ कस्याश्चित्प्रोषितभर्तृकाया बन्धुजनसमाश्वासनं विशेषकेणाह-

 रुरुदिषा वदनाम्बुरुहश्रियः सुतनु सत्यमलंकरणाय ते ।
 तदपि संप्रति संनिहिते मधावधिगमं धिगमङ्गलमश्रुणः ॥१७॥

 रुरुदिषेति ॥ हे सुतनु शुभाङ्गि, 'अम्बार्थनद्योर्ह्रस्वः' (७३।१०७) इति ह्रस्वत्वम् । दीर्घोत्तरपदो बहुव्रीहिः, अन्यथा गुणः स्यात् । रुरुदिषा रोदनेच्छा। अश्रुविमोचनमित्यर्थः । रुदः सन्नन्तादप्रत्यये टाप् । ते तव वदनाम्बुरुहश्रियोऽलं. करणाय सत्यम् । 'रम्याणां विकृतिरपि श्रियं तनोति' (किरातार्जुनीये ७।५) इति न्यायादिति भावः । गम्यमानक्रियापेक्षत्वाच्चतुर्थी । तदपि तथापि संप्रति मधौ वसन्ते संनिहिते संनिहितोत्सवे सति अश्रुणोऽधिगमं प्राप्तिममङ्गलं धिक् निन्दतीत्यर्थः । 'धिक निर्भर्त्सननिन्दयोः' इत्यमरः । 'धिगुपर्यादिषु त्रिषु' इति द्वितीया । अतो मा रुद इत्यर्थः ॥ १७ ॥

 त्यजति कष्टमसावचिरादसून् विरहवेदनयेत्यघशङ्किभिः ।
 प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः

 त्यजतीति ॥ प्रियतया इष्टतया अघशङ्किभिरनर्थोत्प्रेक्षिभिः । 'प्रेम पश्यति भयान्यपदेऽपि' (किरातार्जुनीये ९/७०) इति भावः । बान्धवैस्त्वयि विषये गदिता उच्चारिताः कष्टं बत असौ बाला विरहवेदनया अचिरादसून प्राणांस्त्यजति त्यक्ष्यति । 'वर्तमानसामीप्ये वर्तमानवद्वा' (३।३।१३१) इति लट् । इत्येवं-

विधा गिर उक्तीः हे सखि, विगतं तथात्वं यासां ता वितथा अनृताः । 'वितथं