पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
शिशुपालवधे

  स्थूलेन्द्रनीलशकलावलिकोमलेन
   कण्ठेगुणत्वमलिनां वलयेन भेजे ॥४६॥

 कण्डूयत इति ॥ कटभुवं गण्डस्थलं कण्डूयतः कषतः । 'कण्ड्वादिभ्यो यक्' (३।१।२७) ततः शतृप्रत्ययः । कण्डूयतेर्ञिद्धातुप्रकृतित्वादुभयपदित्वम् । करिणो मदेन सुगन्धिं शोभनगन्धम् । गन्धस्येत्वे तदेकान्तग्रहणं नाद्रियन्ते कवयः । नगस्य वृक्षस्य स्कन्धं प्रकाण्डम् । अनुलीनवता । तत्र संश्लिष्टेनेत्यर्थः । लीयतेर्निष्टेति क्तवतुप्रत्ययः । 'ल्वादिभ्यः' (८।२।४४) इति निष्ठानत्वम् । स्थूलानामिन्द्रनीलशकलानामावलिवत्कोमलेन मनोहरेणालिनां वलयेन कण्ठेगुणत्वं कण्ठवलयत्वम् । 'अमूर्धमस्तकात्स्वाङ्गादकामे' (६।३।१२) इत्यलुक् । भेजे प्राप्तम् । कर्मणि लिट् । अत्रालिवलये इन्द्रनीलमयकण्ठभूषणत्वारोपाद्रूपकालंकारः ॥ ४६॥

  निर्धूतवीतमपि बालकमुल्ललन्तं
   यन्ता क्रमेण परिसान्त्वनतर्जनाभिः ।
  शिक्षावशेन शनकैर्वशमानिनाय
   शास्त्रं हि निश्चितधियां क्व न सिद्धिमेति ॥४७॥

 निर्धूतेति ॥ यन्ता निषादी निधूतं निरस्तं वीतं पादघाताङ्कुशवारणं यस्मिन्कर्मणि तद्यथा तथा उल्ललन्तमुत्प्लवमानमपि । 'पादकर्म यतं प्रोक्तं यतमङ्कुशवारणम् । उभयं वीतमाख्यातम्' इति हलायुधः । बालकं पञ्चवर्षगजम् । 'पञ्चवर्षों गजो बालः पोतस्तु दशवार्षिकः' इति वैजयन्ती । शिक्षावशेन स्वकीयेन गजशास्त्राभ्यासबलेन क्रमेण परिपाट्या परिसान्त्वनान्युपलालनानि तर्जना भर्त्सनाश्च ताभिः शनैरेव शनकैः । 'अव्ययसर्वनाम्नामकच् प्राक्टेः' (५।३७१) इति स्वार्थेऽकच् प्रत्ययः । शमं शान्तिमानिनाय । तथा हि-सुष्टु निश्चितार्था धीरेषां तेषाम् । पुंसामित्यर्थः । शास्त्रं क्व सिद्धिं नैति । स्वभ्यस्तं शास्त्रं सर्वत्र फलतीत्यर्थः । विभक्तधना भ्रातरो विभक्ता इतिवद्विनिश्चितार्था धीनिश्चितेत्युपचर्यते । अत एवात्र गम्यमानार्थत्वादुत्तरपदस्याप्रयोगलक्षणो लोप इत्याहुः ॥ ४७ ॥

  स्तम्भं महान्तमुचितं सहसा मुमोच
   दानं ददावतितरां सरसाग्रहस्तः ।
  बद्धापराणि परितो निगडान्यलावी-
   त्स्वातन्त्र्यमुज्वलमवाप करेणुराजः॥४८॥

 स्तम्भमिति ॥ करेणुश्चासौ राजा च करेणुराजो गजश्रेष्ठः । करेणूनां राजेति गजपतिः, राजा च ध्वन्यते । उभयत्रापि 'राजाहःसखिभ्यः-' (५।४।९१) इति

टच् । उज्ज्वलमुच्छृङ्खलं स्वातन्त्रयं स्वेच्छाचारित्वमवाप। तदेवाह-उचितं चिरपरिचितं महान्तं स्तम्भमालानं जाड्यं च सहसा मुमोच। 'स्तम्भः स्थूणाजडत्वयोः' इति