सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
पञ्चमः सर्गः ।

मालाः पुनरुक्तसान्द्राः द्विगुणसान्द्राः कुर्वन् । स्वभावतोऽपि सान्द्रत्वादिति भावः । मयूरच्यंसकादित्वाद्विस्पष्टबहुवत्समासः । क्षणं यदूनां बलैः सैन्यैः क्षुण्णोऽद्रेरुत्थितो दिवमाकाशमातनितुमवतनितुमिच्छुरातितांसुः । तनोतेः सन्नन्तादुप्रत्ययः । 'सनीवन्तर्ध-' (७।२।४९) इत्यत्र तनिपतिदरिद्राणामुपसंख्यानाद्वैकल्पिक इड्भावः । 'तनोतेर्विभाषा' (६।४।१७) इति दीर्घः । पांशुर्दिशां मुखमतुत्थयदाच्छादयति स्म । 'तुत्थ आच्छादने' इति धातोश्चौरादिकाल्लङ् ॥ ११॥

  उच्छिद्य विद्विष इव प्रसभं
   मृगेन्द्रानिन्द्रानुजानुचरभूपतयोऽध्यवात्सुः।
  वन्येभमस्तकनिखातनखाग्रमुक्त-
   मुक्ताफलप्रकरभाञ्जि गुहागृहाणि ॥ १२ ॥

 उच्छिद्येति ॥ इन्द्रानुजस्योपेन्द्रस्य हरेरनुचरा अनुजीविनो भूपतयो मृगेन्द्रान् सिंहान् विद्विषः शत्रूनिव प्रसभं प्रसह्योच्छिद्य हत्वा वन्येभानां मस्तकेषु निखातैर्निक्षिप्तैर्नखाग्रैः सिंहनखमुखैर्मुक्तान् विकीर्णान् मुक्ताफलप्रकरान् भजन्तीति तथोक्तानि । गुहा गृहाणीवेत्युपमितसमासः । विद्विप इवेति लिङ्गादध्यवात्सुः अध्युषितवन्तः । 'उपान्वध्याङ्गसः' (१।४।४८) इति कर्मत्वम् । 'वस निवासे' लुङि सिचि वृद्धिः । 'सः स्यार्धधातुके' (७।४।४९) इति तत्वम् ॥ १२ ॥

  विभ्राणया बहलयावकपङ्कपिङ्ग-
   पिच्छावचूडमनुमाधवधाम जग्मुः।
  चश्ववग्रदष्टचटुलाहिपताकयान्ये
   स्वावासभागमुरगाशनकेतुयष्ट्या ॥१३॥

 बिभ्राणयेति ॥ अन्ये भूपतयः याव एव यावकोऽलक्तकः । 'राक्षा लाक्षा जतु क्लीवे यावोऽलक्तो द्रुमामयः' इत्यमरः । ‘यावादिभ्यः कन्' (५।४।२९) इति स्वार्थे कन् । बहलेन यावकपङ्केन पिङ्ग पिङ्गलं पिच्छं बर्हमेवावचूडमधोलम्बिकलापं बिभ्राणया 'अस्योचूडावचूडाख्यावूर्ध्वाधोमुखचूडको' इति ध्वजाङ्गेषु हलायुधः । चञ्चुः त्रोटिः । 'चञ्चुस्त्रोटिरुभे स्त्रियाम्' इत्यमरः । तस्या अग्रेण दृष्टा चटुला चञ्चला अहिरेव पताका यस्यां तया उरगाशनो गरुडस्तस्य केतुयष्टिः । तदधिष्ठितो ध्वजदण्ड इत्यर्थः । तया, अभिज्ञानेनेति भावः । अनुमाधवधाम हरिशिबिरमनु स्वावासभागं स्वनिवेशदेशं जग्मुः प्रापुः । दूरादेव गरुडध्वजेन माधवधाम ज्ञात्वा तत्संनिहितान्नियतदिक्कान् स्वावासान्निश्चित्य जग्मुरित्यर्थः ॥ १३ ॥

  छायामपास्य महतीमपि वर्तमाना-
   मागामिनीं जगृहिरे जनतास्तरूणाम् ।
  सर्वो हि नोपगतमप्यपचीयमानं
   वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥ १४ ॥