मानेन घण्टाद्वयेन परिवारितस्य वेष्टितस्य वारणेन्द्रस्य लीलां शोभां वहति । अत्र लीलामिव लीलामिति सादृश्याक्षेपान्निदर्शना । तथा सूर्याचन्द्रमसावस्य कुक्षिसमानकक्षां विभ्रत इति महदौन्नत्यं व्यज्यते । पुष्पिताग्रा वृत्तम् । 'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति ॥ २० ॥
वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः ।
अचल एष भवानिव राजते स हरितालसमाननवांशुकः ॥ २१ ॥
वहतीति ॥ लसमाना दीप्यमाना नवांशवो यस्य स लसमाननवांशुकः । शैषिकः कप्प्रत्ययः । योऽचलः सहरिताः सदूर्वाः । 'हरितेति च दूर्वायां हरिद्वर्णयुतेऽन्यवत्' इति विश्वः । कनकस्य स्थलीः स्वर्णभूमीः। 'जानपद-' (४।१।४२) इत्यादिना अकृत्रिमार्थे ङीष् । परितो वहति स एषोऽचलः हरितालेन कर्चूरेण समानं नवमंशुकं वासो यस्य स हरितालसमाननवांशुकः पीताम्बरो भवानिव राजते । द्रुतविलम्बितं वृत्तम् । 'द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात् ॥२१ ॥
पाश्चात्यभागमिह सानुषु संनिषण्णा:
पश्यन्ति शान्तमलसान्द्रतरांशुजालम् ।
संपूर्णलब्धललनालपनोपमान-
मुत्सङ्गसङ्गिहरिणस्य मृगाङ्कमूर्तेः ॥ २२ ॥
पाश्चात्येति ॥ इहाद्रौ सानुषु संनिषण्णाः स्थिता जनाः शान्तमलं कलड़्कस्य पुरोवर्तित्वान्निष्कलङ्कमत एव सान्द्रतरमंशुजालं यस्य तं संपूर्ण परिपूर्णंं लब्धं प्राप्तं ललनालपनोपमानं स्त्रीमुखसादृश्यं येन तम् । 'आननं लपनं मुखम्' इत्यमरः । कुतः । उत्सङ्गसङ्गिहरिणस्याङ्कस्थमृगस्य मृगाङ्का मृगचिह्ना मृगचिह्ना मूर्तिर्यस्य तस्य मृगाङ्कमूर्तेश्चन्द्रस्य पश्चाद्भवः पाश्चात्यः । 'दक्षिणापश्चात्पुरसस्त्यक्' (४।२।९८)। स चासौ भागश्च तं पाश्चात्यभागं पृष्ठभागं पश्यन्ति । पाश्चात्यभागदर्शनातिशयोक्त्या तादृगौन्नत्यध्वनिः । वसन्ततिलका वृत्तम् ॥ २२ ॥
कृत्वा पुंवत्पातमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।
कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्वाणमत्र ॥ २३ ॥
कृत्वेति ॥ अत्राद्रौ निर्झरौघा गिरिनदप्रवाहाः । 'प्रवाहो निझरो झरः' इत्यमरः । चूतवृक्ष इत्यादिवत्सामान्यविशेषभावादपुनरुक्तिः । पुंवत् पुंभिस्तुल्यम्। 'तेन तुल्यं क्रिया चेत्-' (५।१।११५) इति वतिः । उच्चैर्भृगुभ्योऽतटेभ्यः । 'प्रपातस्वतटो भृगुः' इत्यमरः । ग्राव्णां शिलानां मूर्ध्नि पातं कृत्वा पतित्वा जर्जराः शकलीभूता द्यामाकाशं प्रत्युत्पतन्तः स्मरार्तानां स्वर्लोकस्त्रीणां खेचरीणामप्सरसां गात्रनि र्वाणमङ्गनिर्वृतिं कुर्वन्ति । 'अनुष्ठानासमर्थस्य वानप्रस्थस्य जीर्यतः ।भृग्वग्निजलसंपातैर्मरणं प्रविधीयते ॥' इति विहितभृगुपातिनां पुंसां स्वर्लोकगामिनामिहोपमानता । शालिनी वृत्तम् । 'शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः' इति ॥ २३ ॥