पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
शिशुपालवधे

अन्यत्र द्वारवतीत्वं द्वारवत्त्वं नेष्टं, तस्य हरिनिष्क्रमणहेतुत्वात् , इत्युभयथाप्युपमितभुजवलयगलनहेतुत्वात् उपमासंकीर्णेयमनिष्टत्वोत्प्रेक्षा प्रायेणेत्यनेन व्यज्यते॥६९॥

 अथासर्गसमाप्तेः समुद्रं वर्णयति-

 पारेजलं नीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः ।
 वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ ७० ॥

 पार इति ॥ मुरारिः नीरनिधेः समुद्रस्य जलानां पारे परतीरे पारेजलम् । 'पारावारे परार्वाची तीरे' इत्यमरः । 'पारे मध्ये पष्ठ्या वा' (२।१।१८) इत्यव्ययीभावः । तत्संयोगादेकारान्तत्वं च पारेशब्दस्य । आ समन्तान्नीला पलाशानां पत्राणां राशयो यासां ताः। हरितपर्णपूर्णा इत्यर्थः । 'पत्रं पलाशं छदनम्' इत्यमरः। अत एवोत्कलिका ऊर्मयः । 'ऊर्मिरुत्कलिकोल्लोलकल्लोललहरिस्तथा' इति हलायुधः । तासां सहस्रैः प्रतिक्षणमुत्कूलिताः कूलमुद्गताः। कूलं प्रापिता इत्यर्थः । उत्कूलशब्दात् 'तत्करोति-' (ग०) इति ण्यन्ताकर्मणि क्तः । तेषां शैवलानामाभेवाभा यासां ताः । तत्सदृशीरित्यर्थः । वनावलीरपश्यत् । अत्रोत्कूलितशैवलस्य स्वतःसिद्धसंदेहादुपमोत्प्रेक्षयोः संदेहसंकरः ॥ ७० ॥

 लक्ष्मीभृतोऽम्भोधितटाधिवासान् द्रुमानसौ नीरदनीलभासः ।
 लतावधूसंप्रयुजोऽधिवेलं बहूकृतान् स्वानिव पश्यति स्म ॥७१॥

 लक्ष्मीभृत इति ॥ असौ हरिर्लक्ष्मी शोभां, श्रीदेवीं च विभ्रतीति लक्ष्मीभृतस्तान् अम्भोधितटेऽधिवासो येषां तान् नीरदवन्नीलभासो नीलवर्णान् । लता वध्व इवेत्युपमितसमासः । अन्यत्र लता इव वध्व इति शाकपार्थिवादित्वान्मध्यमपदलोपी समासः । ताभिः संप्रयुज्यन्त इति संप्रयुजः संगतान् । क्विप् । अधिवेलं वेलायाम् । विभक्त्यर्थेऽव्ययीभावः । द्रुमान् बहूकृताननेकीकृतान् स्वान् स्वकीयविग्रहानिवेत्यर्थः । एवं च पुंलिङ्गतानिर्वाहः । आत्मपरत्वे नपुंसकत्वापातः । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इत्यमरः। पश्यति स्म । श्लेषसंकीर्णेयमुत्प्रेक्षा ॥ ७१ ॥

 आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् ।
 फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥ ७२॥

 आश्लिष्टेति ॥ आश्लिष्टभूमिमालिङ्गितभूतलमुच्चैस्तारं रसितारं क्रन्दितारं लोलतां चञ्चलतामितस्ततः पततां भुजानामाकार इवाकारो येषां ते बृहत्तरङ्गा यस्य तं तथोक्तं फेनायमानं फेनमुद्वमन्तम् । 'फेनाञ्चेति वक्तव्यम्' (वा०) इति क्यङ् । अपां समूह आपम् । 'तस्य समूहः' (४।२।३७) इत्यण् । तेन गच्छन्तीत्यापगाः तासां पतिं समुद्रम् । असौ हरिरपस्मारिणमपस्माररोगिणमाशशङ्के । तत्कर्मयोगात्तथोत्प्रेक्षां चक्रे इत्यर्थः । यथाहुनैदानिका:-क्रुद्धैर्धातुभिरारतेऽथ मनसि प्राणी मनः संदिशन्दन्तान्खादति फेनमुद्गिरति दोःपादौ क्षिपन्मूढधीः। पश्यन्रूपमसत्क्षितौ निपतति व्यर्थां करोति क्रियां बिभ्यत्स स्वयमेव शाम्यति गते वेगे त्वपस्माररुक् ॥' इति ॥ ७२ ॥


पाठा०-१ "धनावली:'.२ "ध्वजा".