संज्ञायाम् 'मादुपधायाश्च-' (८।२।९) इति वत्वम् । आह्वास्त स्पर्धयाऽऽहूतवती । अमरावतीमनुचकारेत्यर्थः । ह्वयतेर्लुङ् 'स्पर्धायामाङः' (१३।३१) इत्यात्मनेपदम् । “लिपि सिचि ह्वश्च' (३।१।५३) इति 'आत्मनेपदेष्वन्यतरस्याम्' (३।१०५४) इति च्लेरङभावपक्षे सिजादेशः । अत्र प्रथमार्धे श्लेषेऽपि सिन्धौ मेरौ स्थितेति प्रतिबिम्बाभावेन साधर्म्योक्तेः श्लेषानुप्राणितेयमुपमेति संक्षेपः । आह्वास्तेति सादृश्यप्रतिपादकः शब्दः । स्पर्धते ह्वयते द्वेष्टीत्यनुशासनात् ॥ ६२ ॥
स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तः ।
विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव ६३
स्निग्धेति ॥ स्निग्धं यदञ्जनं तद्वत्तेन च श्यामरुचिः सुवृत्तः सद्वृत्तिः, सुष्टु वर्तुलश्च । त्रयाणां लोकानां समाहारस्त्रिलोकी । तद्धितार्थ-' (२।१।५१) इत्यादिना समासः । 'संख्यापूर्वो द्विगुः' (२।१।५२) इति द्विगुसंज्ञा । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्यते' इति स्त्रीत्वे 'द्विगोः' (४।१।२१) इति ङीप् । तस्यास्तिलको भूषणभूतः स हरिरेव, विशेषको वा । तिलक इवेत्यर्थः । 'इववद्वायथाशब्दा' इत्यनुशासनात् । 'तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियाम्' इत्यमरः । अध्वंसिता वर्णानां ब्राह्मणादीनां कान्तिरौज्ज्वल्यं यस्यास्तस्याः पुरः, अन्यत्राध्वंसितो वर्णो गौरादिः, कान्तिर्लावण्यं च यस्यास्तस्याः । 'वर्णो द्विजादौ शुक्लादौ' इत्युभयत्राप्यमरः । वध्वा इव श्रियं विशिशेष विशेषितवान् । अनेकशब्देयमुपमेत्येके । शब्दमात्रसादृश्याच्ल्छेष इत्यन्ये । श्लेषोपमेत्याह दण्डी ॥ ६३॥
तामीक्षमाणः स पुरं पुरस्तात्तात्प्रापत्प्रतोलीमतुलप्रतापः ।
वज्रप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥ ६४ ॥
तामिति ॥ अतुलप्रतापः स हरिस्तां पूर्वोक्तां पुरमीक्षमाणः पुरस्तात् पूर्वस्यां दिशि । सप्तम्यर्थे तसिल् प्रत्ययः । प्रतोली रथ्याम् । 'रथ्या प्रतोली विशिखा' इत्यमरः । प्रापत् प्राप्तवान् । लुङि 'पुषादि-' (३।१।५५) इत्यादिना च्लेरङादेशः । वज्राणां तोरणप्रासादादिगतहीरकादिमणीनां प्रभाभिरुद्भासिनी सुरायुधश्रीरिन्द्रचापलक्ष्मीर्यस्यां सा । इह वज्रग्रहणं मणिमात्रोपलक्षणम् । अन्यथेन्द्रायुधासाम्यादिति भावः । अन्यत्र वज्रस्य कुलिशस्य प्रभाभिरुद्भासिनी सुरायुधानाभितरदेवतायुधानां श्रीर्यस्याः सा । 'वज्रोऽस्त्री हीरके पवौ' इत्यमरः । या प्रतोली देवसेना सुरचमूरिव परैः शत्रुभिरलङ्घ्या दुष्प्रधर्ष्या ॥ ६४ ॥
प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः ।
मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्धजिन्यः॥६५॥
प्रजा इति ॥ अरविन्दनाभेर्विष्णोरङ्गात् प्रजा इव । 'यतो वा इमानि भूतानि जायन्ते' इति श्रुतेरिति भावः । शंभोर्जटाजूटतटात् आप इव गङ्गाजलानीव विधातुर्मुखात् श्रुतय इव मुरजितो हरेः ध्वजिन्यः सेनाः पुरान्निरीयुर्निर्गताः ।
मालोपमेयम् ॥ ६५॥