पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
तृतीयः सर्गः ।

 शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनाम् ।
 यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि॥४८॥

 शुकाङ्गेति ॥ यस्यां पुरि मुग्धाङ्गनाः शुकाङ्गवन्नीलोपला नीलमणयः । मरकतानीत्यर्थः । 'उपलः प्रस्तरे मणौ' इति विश्वः । तैर्निर्मितानां गृहाणां देहल्यो गृहद्वारशाखाधारदारूणि । 'गृहावग्रहणी देहली' इत्यमरः । तासां भासा लिप्तेष्वलिन्देषु द्वारबहिर्भागेषु । 'प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके' इत्यमरः । गोः पुरीषं गोमयम् । 'गोश्च पुरीषे' (४।३।१४५) इति मयट् । तस्य गोमुखानि विलेपनानि । 'गोमुखं कुटिलाकारे वाद्यभाण्डे विलेपने' इति विश्वः । न चक्रुरेव । मरकतप्रभायां विलेपनभ्रान्त्येति भावः । अत एव भ्रान्तिमदलंकारः । 'कविसंमतसादृश्याद्वस्वन्तरमतिर्हि यत् । स भ्रान्तिमान्' इत्यलंकारसर्वस्वकारलक्षणात् ॥ ४८ ॥

 गोपानसीपु क्षणमास्थितानामालम्बिभिश्चन्द्रकिणां कलापैः ।
 हरिन्मणिश्यामतृणाभिरामैर्गृहाणि नीध्रैरिव यत्र रेजुः ॥४९॥

 गोपानसीष्विति ॥ यत्र पुरि गृहाणि गोपानसीषु वलभीषु । छादनाधारेषु वंशपञ्जरेष्वित्यर्थः । अत एव 'गोपानसी तु वलभी छादने वक्रदारुणि' इत्यत्र पटलाधारवंशपञ्जरे इत्याह स्वामी । क्षणमीषत्कालम् । अत्यन्तसंयोगे द्वितीया । आस्थितानामासीनानां चन्द्रकाः मेचकाः। 'समौ चन्द्रकमेचको' इत्यमरः । तद्वतां चन्द्रकिणां मयूराणामालम्बिभिर्लम्बमानैः कलापैर्बहैं: । 'कलापो भूषणे बर्हे' इत्यमरः । हरिन्मणयो मरकतानि । 'गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः' इत्यमरः । तद्वच्छयामैस्तृणैरभिरामाणि । हरिततृणमयानीत्यर्थः । तैर्नीध्रैः पटलप्रान्तैरिव रेजुः । 'वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः' इत्यमरः । छादनपर्यायौ पटलच्छदी। छद्यञ्चलवाचिनी वलीकनीधे । छदेराधारो वंशपञ्जरो गोपानसीति विवेकः । अत एव हरितत्वालम्बनादिगुणक्रियानिमित्तत्वान्नीध्रैरिवेति जातिस्वरूपोत्प्रेक्षा ॥ ४९ ॥

 बृहत्तुलैरप्यतुलैर्वितानमालापिनद्वैरपि चावितानैः ।
 रेजे विचित्रैरपि या सचित्रैहैविशालैरपि भूरिशालैः ॥५०॥

 बृहदिति ॥ या पूः बृहत्यस्तुला उपरिस्थाप्यदार्वाधारभूतानि स्तम्भाग्रपीठानि येषु तैः बृहत्तुलैस्तथाप्यतुलैस्तद्रहितैरिति विरोधः । अनुपमैरित्यविरोधः । 'तुला माने पलशते सादृश्ये राशिभाण्डयोः । गृहाणां दारुबन्धाय पीठ्याम्' इति हैमः । वितानानामुल्लोचानां मालाभिः पङ्क्तिभिः पिनद्वैराच्छादितैः तथाप्यवितानैस्तदहितैरिति विरोधः । अशून्यरित्यविरोधः । समस्तवस्तुसमृद्धैरित्यर्थः । 'अस्त्री वितानमुल्लोचः' 'वितानं त्रिषु तुच्छकम्' इत्युभयत्राप्यमरः । विचित्रैरालेख्यरहितैरपि सचित्रैः तत्सहितैरिति विरोधः । विचित्रैरद्भुतैरिति परिहारः । 'आलेख्याश्चर्ययोश्चित्रम्' इत्यमरः । विगताः शाला गृहैकदेशा येषां तानि ।

'शाला गृहे तरुस्कन्धे शाखागारैकदेशयोः' इति विश्वः । तैः विशालैरपि भूरिशालैः प्रचुरगृहैकदेशविशिष्टैरिति विरोधः । विशालैः पृथुलैरित्यविरोधः ।