दक्षिणे वाऽपि वामदेवं स्मरेत् गुरुः । पश्चिमे पूर्वदेशे वा सद्यवक्त्रंस्मर नयसेत्’ इत्युक्तम् । तत्रैव दक्षिणद्वारार्चनेऽयुक्तम् अघोरं पुरुषं वाऽपि दक्षिणेसम्यगर्चयेत् । अघोरंखऽथ सजं वा पश्चिमेतु समर्चयेत् ।। सद्यवक्त्रं तु वामं वा सौम्यदेशे समर्चयेत् । पुरुषं वाऽथ वामं वा पूर्व देशेसमर्चयेत्' इति ॥ सर्वमपि स्थिर मुत्तराभिमुखं पूजनीयम् । ‘लिङ्गं वा प्रतिमा वा क्रियतेऽन्यद्वा यया ककुभा । तस्यां तस्यां यज्वा यजेत शिवमुत्तराभिमुख इति वचनात् । तत्र मुख्यपूर्वाभिमुखलिङ्गपूजायां मुख्याग्नेयदिशि स्थितस्य पूजकस्य मुख्य मुत्तराभिमुखखमेत्र घटते । नच देवस्य वामभागे नैनीत देशे देव्या निविष्टत्वात्तत्र पूजकस्योपस्थितौ ‘नोत्तरे योषिदाश्रय'इति निषेधप्रसङ्गः। कामेके पश्चिमद्वारार्चनपटले घामेत्र दक्षिणेवाऽपि स्थाप- नीया मनोन्मनी । देवसंमुखसंयुक्ता द्विहस्तैकमुखान्वितेति पश्चिमाभिमु खलिङ्गपूजायां दक्षिणभागेऽपि देवीनिवेशनस्यांगीकृतत्वेन नैर्दतदिक्स्थि तस्य पूषकस्य देवदक्षिणभागनिविष्टदेवीभावनोपपत्तेः । एवं दक्षिण दिखूप गणपूर्वाभिमुखलिङ्गपूजायां नैतदिग्रपगौणाग्नेयदिशिस्थितस्य प्रा- चीरूपगौणोत्तराभिमुखत्वंउत्तरादिग्रपगणपूर्वाभिमुखलिङ्गपूजायामीशानदिग्र- पगौणाग्नेयदिशि स्थितस्य प्रतीचीरूपगौणोत्तरवक्त्रत्वंच घटते । एवं पूज काभिमुखखनियमो नविहन्यते । सर्वत्रात्मार्थपूजाप्रकरणे ‘उत्तराभि- मुखो भूत्वा रुचिरासनसंस्थित' इत्यादिविधानात् । तत्रायं विशेषः पापक्षयार्थिभिर्युक्यार्थिभिश्च मुखनां दिश्यवस्थामाश्रित्याखोरवक्त्र मभिमुख त्वेन भावनीयम् । ‘न विभोः पुरतस्तिष्ठेत् न पश्चात् स्त्र्यन्तिकेऽपिच अर्घौघध्वंसमोक्षार्थं दक्षे दक्षस्थितोऽर्चयेत् ! । हिमं मरुच शीतञ्च पञ्च । निर्दहतेयथा । तथाऽघोरः प्रशान्तोऽपि पापनिदोहकारकः । महानपि यथा दन्ती यन्तारमनुवर्तते । तस्मादातेन वचसा उत्तराभिमुखो यजेत् ।। इत्यवो
पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/९३
दिखावट