पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
शिवार्चनचन्द्रिकायम्

नि पूषयामि । हां केसरेभ्योनमः । मूले सुवर्णवर्णानि मद्ये विद्रुम वर्णानि मुक्तफलाकृतिशिरोलकृतानि चतुष्यष्टिकलारूपाणि वामादिश क्तिसहिताष्टरुद्ररूपाणिच केसराणि पूजयामि । केसराणा मष्टरुद्ररूपत्व पक्षे अष्टाची केसराण्येकैकरुद्धेन भवनीयानि । अथवा फणारूप दलसहस्रयुक्तस्य अनन्तपनस्य केसराण्यपि सहस्र सन्ति । तानि सर्वाणि पञ्चविंशत्युत्तरशतसञ्जययाऽष्टधा विभज्य घामाचष्टरुद्ररूपेण पूज नीयानि । कर्णिकासाहितान्यष्टावेवचा केसराणि तथा पूजनीयानि । अयं न्यायोऽष्टैविधेश्वररूपतया पूजनीयेषु दळेष्वपि योजनीयः। हां कर्णिकायै नमः । विमलां शक्तिरूपां कनकवर्णं शिवासनपद्मकर्णिकां पूजयाभैि। हां बीजेभ्योनम"। वामादिनवशक्तिरूपाणि वा पश्चाशद्वर्णरूपाणि या शिव सनपकर्फिकाबीजानि पूजयामि । ततस्सर्वावयवयुक्तं पद्म विभाव्य हां पझासनाय नैमं इतुिं संपूज्य हां पणमुद्रायै नम इति पद्ममुद्रां प्रदर्शयेत् । ततः पूर्वादिप्रादाक्षिण्येनाऽस्त्रष्टयु केसरेषु बामादीरर्थौ शक्तीरेकैकशः पू जयेत् । चाभायै नमः । ज्येष्ठायैनमः। रौद्रयै नमः । काळ्यै नमः । क लविकरिण्यैनमः। बलविकरिण्यै नमः । बलप्रमथिन्यै नमः । सर्वभूतदम न्यै नमः। अरुणवक्र श्चामरधारिणी शिवासनम्यस्तैकहस्ता शिवाभिमु ख्येन केसरेषु स्थिता वामादिशक्तीः पूजयामि । मनोन्मन्यैनमः । स्फटि- कवर्णी पाशाङ्कुशाभयवरधारिणीं शिवासनपद्मकर्णिकायामीशानदिशि मध्ये ईशनदिशि या स्थितां मनोन्मनों पूषयामि । ततस्साधिपतिकानि सूर्य समाप्तिशक्तिमण्डलान्युपर्युपरि पूजयेत् । हां सूर्यमण्डलाय नमः । कोटि सूर्यप्रतीकाशं शिवपझासनदळाप्रव्यापकं सूर्यमण्डलं पूजयामि । हां सू र्यमण्डलाधिपतये ब्रह्मणे नमः । पञ्चमी चतुर्बाहुं प्रतिवनं त्रिलोचनम् ।