सामग्री पर जाएँ

पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शिवार्चनाचन्द्रिकायाम्

फडन्तात्रेण नाराचमुद्रया पूर्वादिषु सर्वासु दिक्षु क्षिपेत् । एवं दिग्निर नानामधिपस्य इन्द्रस्य दिशि स्थितस्य मृद्भागस्य दिक्षु क्षेपेण तत्तद्दिगवसि ताः सर्वे विनाशमं यांति । तदनु शिवजप्तमृद्भागार्ध मूलेन बले शिवतीर्थ सिध्यर्थं निक्षिप्य तदपरार्ध शिवतीर्थसमानसिध्यर्थं मूलमन्त्रकृतेन बाहुपरिश्न मणेन समन्तान्निक्षिपेत् । एवं सोमदिशि स्थापितो मृद्भागः केवलममृतम स्सशिवमन्त्रेण लबेळनात् क्षरतीति तत्तीर्थममृतमयं भवति । इत्थं शिव तीर्थं परिकल्प्य विधितस्स्नायात्। तदर्थं प्रथमं ब्रह्मङ्गजतेन मृद्भागेन स र्वमङ् लिपेत् । धर्मराजदिशि स्थितस्य मृद्भागस्य संस्थांनात्सर्वपापक्षयो भ वति । अतषण्मुखीकरणमुद्रया श्रोत्रादिद्वाराणि पिधाय शिवतीर्थमध्ये निमज्ज्य शत्रमन्त्रं ध्यायन्नन्तर्जले यावच्छक्ति अत्रतिष्ठेत । अन्तर्जले स वङ्गानमज्जनमुत्तममद्भङ्गजनिमञ्जनं मध्यमं मुखमात्रनिमज्जनं कनीयः । ततो जलादुत्थाय वामदक्षिणहस्ती सोमसूर्यात्मक शक्तिशिवौ वा विचिन्त्य ताभ्यां कृतया कुम्भमुद्रया वैषडन्तसहिताभिमंत्रितैः जलैश्शिरस्यभिषिच्य हुंफडन्ता स्त्रेण विनशमनार्थं जलं दिक्षु विदिक्षुच विनिक्षिप्य तत्तीर्थजले शिवतीर्थ सिद्ध्यर्थं निक्षिप्य तदपराद्धं शिवतीर्थसीमनि संहारमुद्रया उपसंहरेत् । इत्थं सरिदादिकं शृत्वा स्नातुमशक्तो गृहएव शुद्धे गमयलिप्ते भूभागे पीठस्थः शीतजलपूरितैश्शिवमन्त्रजप्तैः नवभिरष्टभिः पञ्चभिर्वा कुम्भैस्स्नायात् । राजानः स्त्रीबालरोगिणः प्रवासिनश्च शीतोदकस्नानाशक्तौ उष्णोदकेनस्नानं कुर्युः। शिरसिस्नानाशक्तो कण्ठस्नानादिकं कुर्युः । राजानश्चेत् शिवपूजार्थ शिवस्नपनोक्तसर्वोपचारस्नानसहितस्नानविधानात् सुवर्णपीठे स्थित्वा सुवर्ण कुम्भाहृतैर्जलैश्शङ्कादिमङ्गलवाद्यघोषपुरस्सरं स्नानं कुर्युः । तदनु शुद्धमृदु वस्त्रेण देहसम्मार्जनं चैतत्रस्त्रद्वयपरिधानं आचमनं सकलीकरणं भस्मस्ना ने त्रिपुण्ड्रधारणमित्येतदसवें निर्वर्य सन्ध्यां वन्देत् ॥