पृष्ठम्:शिवलीलार्णवः.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निवेदना ।

 श्रीहालास्यमाहात्म्ये स्कान्दागस्त्यसंहितान्तर्गते प्रतिपादितानां शिवस्य चतुष्षष्टिलीलानां विशालं वर्णनस्थानमितिकृत्वा महाकाव्यमिदं 'शिवलीलार्णव' इत्युच्यते ।

 अस्य प्रणेता श्रीमदप्पयदीक्षितानुजपुत्रो महाकविः श्रीनीलकण्ठदी- क्षितः । एतस्य तत्रभवतः शान्तिविलासः, अन्यापदेशशतकं, वैराग्यशतकं, कलिविडम्बनं, सभारञ्जनं, गङ्गावतरणं, आनन्दसागरस्तवः, नीलकण्ठ- विजयचम्पू:, नलचरितनाटकम् इत्यन्याः काश्चित् कृतयः सहृदयैरुपलालिताः प्रथन्ते । इदं काव्यरत्नं ताः सर्वाः काव्यगुणसम्पत्समृद्ध्या मन्ये, दूरमतिशेते ।

अस्य जीवितसमय:-

"अष्टात्रिंदुपस्कृतसप्तशताधिकचतुःसहस्त्रेषु ।
कलिवर्षेषु गतेषु प्रथितः किल नीलकण्ठविजयोऽयम् ॥ "

इति नीलकण्ठविजये वदतानेनैवाविष्कृतः ।

 अस्य संशोधनाधारभूतावादर्शों द्वौ । तत्रैको राजकीयग्रन्थशालास्थस्तालपत्रा- त्मकः शताधिकवर्षदेशीयोऽचिरसम्पादितस्वात्मप्रतिरूपसचिवः क संज्ञकः । अपरस्तु श्रीवैकुण्ठग्रामाभिजनैः पण्डितनीलकण्ठशास्त्रिभिः कृपया मह्यमुपकृतः ख.संज्ञस्तालप- त्रात्मकः । एतदुभयावलम्बनेन ग्रन्थस्य शरीरमविकलं शुद्धं च सम्पादितम् ॥

त. गणपतिशास्त्री.