सामग्री पर जाएँ

पृष्ठम्:शिवगीता.djvu/87

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



८४
[ अध्यायः ८
शिवगीता ।

 

पितृवद्राक्षसं वेत्ति मातृवड्डाकिनीमपि ॥
पूयं पयोवदज्ञानाद्दीर्घकष्टं तु शैशवम् ॥ ४१ ॥
श्लेष्मणा पिहिता नाडी सुषुम्रा यावदेव हि ।
व्यक्तवर्णं च वचनं तावद्वक्तुं न शक्यते ॥ ४२ ॥
अतएव च गर्भेऽपि रोदितुं नैव शक्यते ॥ ४३ ॥
दृप्तोऽथ यौवनं प्राप्य मन्मथज्वरविह्वलः ।
गायत्यकस्मादुच्चैस्तु तथाकस्माच्च वल्गति ॥ ४४ ॥
आरोहति तरून्वेगाच्छान्तानुद्वेजयत्यपि ।
कामक्रोधमदान्धः सन्न कांश्चिदपि वीक्षते ॥ ४५ ॥
अस्थिमांसशिरालाया वामाया मन्मथालये ।
उत्तानपूतिमण्डूकपाटितोदरसंनिभे ।
आसक्तः स्मरबाणार्त अत्मना दह्यते भृशम् ॥ ४६ ॥
अस्थिमांसशिरात्वग्भ्यः किमन्यद्वर्तते वपुः ॥
वामानां मायया मूढो न किंचिद्वीक्षते। जगत् ॥ ४७ ॥


विवेकशून्यत्वं प्रतिपादयति-पितृवदिति । डाकिनीं राक्षसीविशेषम् । दीर्घं कष्टं यस्मिंस्तत्तादृशं शैशवमिति ॥ ४१ ॥ श्लेष्मणेति । सुषुम्ना ब्रह्मनाडीत्युच्यते सा यावच्छ्ल्ऱेष्मणा पिहितास्ति तावत्स्पष्टाक्षरं वचनं वक्तुं न शक्यते ॥ ४२ ॥ ४३ ॥ यौवनं निरूपयति-दृप्तोऽथेति । दृप्तो गर्वितः अकस्मात् निर्निमित्तं वल्गति स्वपराक्रमं विकत्थते ॥ ४४ ॥ ४५ ॥ अस्थि च मांसं च शिरा च अस्थिमांसशिरं तत् आसमन्ताल्लाति गृह्णाति सा तथा तस्या वामायाः स्त्रिया मन्मथालये उपस्थे। उत्तानं पूति दुर्गन्धं ईदृशं यन्मण्डूकस्य पाटितं विशीर्णं उदरं तत्सदृशे । आसक्तः सन्नात्मना मनसा ॥ ४६ ।।॥ अस्थीति । वामानां सुन्दरीणां वपुः शरीरं अस्थि मांसप्रभृतिभ्योऽन्यद्वर्तते किं नास्त्येवेत्यर्थः । यद्यपि अस्थ्यादीनामेकत्वमेवापेक्षितं प्राण्यङ्ग-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/87&oldid=301087" इत्यस्माद् प्रतिप्राप्तम्