एकाकिनं चन्द्रमौलिंं वरेण्यमभयप्रदम् ।
चतुर्भुजं खण्डपरशुं मृगहस्तं जगत्पतिम् ॥ ४४ ॥
अथाज्ञया पुरस्तस्य प्रणम्योपविवेश सः ।
अथाह रामं देवेशो यद्यत्प्रष्टुमभीच्छसि ।
तत्सर्वं पृच्छ राम त्वं मत्तो नान्योऽस्ति ते गुरुः ॥४५॥
इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां
योगशात्रे शिवराघवसंवादे विश्वरूपदर्शनं नाम सप्तमोऽध्यायः॥ ७ ॥
अष्टमोऽध्यायः ८
श्रीराम उवाच ।
पाञ्चभौतिकदेहस्य चोत्पत्तिर्विलयः स्थितिः ।
स्वरूपं च कथं देहे भगवन्वक्तुमर्हसि ॥
॥ ४२ ॥ ४३ ॥ एकाकिनमिति । मृगो हस्ते यस्य तम् । खट्वादेः परा सप्तमीति साधुः ॥ ४४ ॥अथेति । गौतमीतीरस्थं स्वविग्रहादिकमुपसंहृत्य रामं गिरिशिखरस्थं ज्ञात्वेत्यर्थः ॥ ४५ ॥ इति श्रीलक्ष्मीनृसिंहपण्डितसूनुहरिदीक्षितकृतौ शिवगीताटीकायां बालानान्दिन्यां सप्तमोऽध्यायः ॥ ७ ॥
पूर्वाध्यायान्ते शंभुनोक्ते यद्यत्प्रष्टुमभीच्छसि तत्सर्वं पृच्छ राम त्वमिति तदेवोपजीव्य स्वयमधिगततत्त्वोऽपि लोकानुग्रहार्थं विरक्तिसाधनं देहादिनिःसारत्वं शिवमुखेनैव प्रकटयितुं रामः पृच्छति-- पाञ्चभौतिकेति । देहे लिङ्गशरीरे पाञ्चभौतिकदेहस्य स्थूलस्य उत्पत्त्यादिकं कथं केन प्रकारेण इदं वक्तुमर्हसीत्यन्वयः ॥ १ ॥