पृष्ठम्:शिवगीता.djvu/56

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



५३
बालानन्दिनीव्याख्यासहिता ।

 
ज्योतिश्चाहं तमश्चाहं तन्मात्राणीन्द्रियाण्यहम् ।
बुद्धिश्चाहमहंकारो विषयाण्यहमेव हि ॥ २१ ॥
ब्रह्मा विष्णुर्महेशोऽहमुमा स्कन्दो विनायकः ।
इन्द्रोऽग्निश्च यमश्चाहं निर्ऋतिर्वरुणोऽनिलः ॥ २२ ॥
कुबेरोऽहं तथेशानो भूर्भुवःस्वर्महर्जनः ॥
तपः सत्यं च पृथिवी चापस्तेजोऽनिलोऽप्यहम् ॥२३॥
आकाशोऽहं रविः सोमो नक्षत्राणि गृहाण्यहम् ।
प्राणः कालस्तथा मृत्युरमृतं भूतमप्यहम् ॥ २४ ॥
भव्यं भविष्यत्कृत्स्नं च विश्वं सर्वात्मकोऽप्यहम् ।
ओमादौ च तथा मध्ये भूर्भुवः स्वस्तथैव च ।
ततोऽहं विश्वरूपोऽस्मि शीर्षं च जपतां सदा ॥ २५ ॥
अशितं पायितं चाहं कृतं चाकृतमप्यहम् ॥
परं चैवापरं चाहमहं सूर्यः परायणः ॥ २६ ॥
अहं जगद्धितं दिव्यमक्षरं सूक्ष्ममप्यहम् ॥
प्राजापत्यं पवित्रं च सौम्यमग्राह्यमग्रियम् ॥ २७ ।।


न्प्रकरणे सर्वेषु पौनरुक्त्येषु समाधानं ज्ञेयम् ॥ २० ॥ ज्योतिरिति । तन्मात्राणि अहंभूतानि विषयाणि विषया इत्यर्थः । क्लीबत्वमार्षम ॥ २१ ॥ २२ ॥ २३ ॥ आकाश इति । ग्रहाणीत्यार्षम् । भूतमतीतम् ॥ २४ ॥ भव्यमिति । सर्वात्मक अन्तर्यामीति । आदौॐकारः मध्येभूर्भुवःस्वः । ततो गायत्री । ततः शीर्षम् "ॐआापोज्योतिः” इत्यादि । जपतां द्विजानां इदं सर्वमहमेव व्यस्तं समस्तं च । विश्वरूपो विराण्मूर्तिः ॥ २५ ॥ अशितमिति । परायणः सर्वेषामाश्रयः ॥ २६ ॥ अहमिति । प्राजापत्यं प्रजापतिदेवतात्मकम् । अग्नियं अ-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/56&oldid=298728" इत्यस्माद् प्रतिप्राप्तम्