पृष्ठम्:शिवगीता.djvu/48

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



४५
बालानन्दिनीव्याख्यासहिता ।

 
तस्माद्वानरतामेत्य भवन्तो युद्धदुर्मदाः ॥
साहाय्यमस्य कुर्वन्तु तेन सुस्था भविष्यथ ॥ १९ ॥
तदाज्ञां शिरसा गृह्य सुराः प्राञ्जलयस्तदा ।
प्रणम्य चरणौ शंभोः स्वंस्वमस्त्रं ददुर्मुदा ॥ २० ॥
नारायणास्त्रं दैत्यारिरैन्द्रमस्त्रं पुरंदरः ॥
ब्रह्मापि ब्रह्मदण्डास्त्रमाग्नेयास्त्रं धनंजयः ॥ २१ ॥
याम्यं यमोऽपि मोहास्त्रं रक्षोराजस्तथा ददौ ॥
वरुणो वारुणं प्रादाद्वायव्यास्त्रं प्रभञ्जनः ॥ २२ ॥
कौबेरं च कुबेरोऽपि रौद्रमीशान एव च ।
सौरमस्त्रं ददौ सूरः सौम्यं सोमश्च पावकम् ॥
विश्वेदेवा ददुस्तस्मै वसवो वासवाभिधम् ॥ २३ ॥
अथ तुष्टः प्रणम्येशं रामो दशरथात्मजः ॥
प्राञ्जलिः प्रणतो भूत्वा भक्तियुक्तो व्यजिज्ञपत् ॥ २४ ॥


त्याह--राघव इति । वयमेव तं हनिष्याम इतिचेत्तत्राह । तस्मै रावणाय देवैरवध्यत्वमित्येवंरूपो वरो मया दत्तः । अतोऽयं राघव एव तस्य हन्तेति भावः ॥ १८ ॥ तस्मादिति । यस्मात्पूर्वमेव मया चोदिताः संतो यूयं वानरतामेत्य तत्रतत्र तिष्ठन्ताम् । तस्मात्कारणाद्भवन्तः सर्वे युद्धदुर्मदा युद्धे सोत्कण्ठाः अस्य साहाय्यं कुर्वन्तु । फलमाह--तेनेति ॥ १९ ॥ तदाज्ञामिति । गृह्य गृहीत्वेत्यर्थः । छान्दसोऽयं ल्यप् ॥ २० ॥ तान्येवास्त्राणि नामतो निर्दिशति-नारायणेति । धनंजयोऽग्निः ॥ २१ ॥ याम्यमिति । रक्षोराजो नाम निर्ऋतिः । प्रभञ्जनो वायुः ॥२२॥ कौबेरमिति । ईशानो लोकपालः । सूरः सूर्येः । पावकं विश्वेदेवा ददुः ॥ २३ ॥ अथेति । व्यजिज्ञपद्वि-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/48&oldid=298254" इत्यस्माद् प्रतिप्राप्तम्