पृष्ठम्:शिवगीता.djvu/37

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



३४
[ अध्यायः ४
शिवगीता ।

चतुर्भुजं त्रिनयनं विद्युत्पिङ्गजटाधरम् ।
कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ ७ ॥
सर्वाभरणसंयुक्तं नागयज्ञोपवीतिनम् ॥
व्याघ्रचर्माम्बरधरं वरदाभयधारिणम् ॥ ८ ॥
व्याघ्रचर्मोत्तरीयं च सुरासुरनमस्कृतम् ।
पञ्चवक्त्रं चन्द्रमौलिं त्रिशूलडमरूधरम् ॥ ९ ॥
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ॥
एवं नित्यं प्रजपतो गतं मासचतुष्टयम् ॥ १० ॥
अथ जातो महानादः प्रलयाम्बुधिभीषणः ।
समुद्रमथनोद्भूतमन्दरावनिभृद्ध्वनिः ॥ ११ ॥


ग्रहवान् । एवं नियमाविष्टः सन्महेश्वरं ध्यायन् । कीदृशम् । हृत्पङ्कज इत्यादिभिर्विशिनष्टि ॥ ६ ॥ चतुर्भुजमिति । विद्युत्तडित्तद्वत्पिङ्गानां जटानां धरम् । कोटिसंख्याकाः सूर्यास्तैः सदृशमित्यर्थः ॥७॥ सर्वाभरणमिति । नाग एव यज्ञोपवीतं तदस्यास्तीति तम् । व्याघ्रचर्मैवाम्बरं तद्धरतीति तम् । वरदाभयमुद्राङ्कितौ हस्तौ धर्तुं शीलमस्येति तम् ॥ ८ ॥ व्याघ्रेति । त्रिशूलं च डमरुश्च त्रिशूलडमरू तौ धरं धारयन्तम् ।। "कर्तृकर्मणोः कृति-” इति सूत्रेण कर्मणि षष्ठी तु न भवति । आर्षत्वाद्वा ॥९॥ नित्यमिति । शाश्वतं शश्वदेकस्वभावम् । शुद्धं कल्पितधर्मरहितं ध्रुवं परिणामशून्यम् । अक्षरं अपक्षयरहितं अव्ययं ध्वंसाप्रतियोगिनं नित्यं प्रागभावाप्रतियोगिनं तथाच षड्भावविकारहीनमिति भावः । एवं ध्यायतः प्रजपतो रामस्य मासचतुष्टयं गतं अत्यगादित्यर्थः ॥ १० ॥ अथ मासचतुष्टयानन्तरम् । अम्बुधिशब्देन तच्छब्दो लक्ष्यते । तद्वद्भीषणः । समुद्रमथने उद्भूतः परिवर्तितो यो मन्दरावनिभृन्मन्दरगिरिस्तद्ध्वनिसदृशः ॥ ११ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/37&oldid=294840" इत्यस्माद् प्रतिप्राप्तम्