पृष्ठम्:शिवगीता.djvu/18

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
बालानन्दिनीव्याख्यासहिता ।

 

नीलेन्दीवरनीकाशनयनद्वयशोभिता ।
मत्तकोकिलसंल्लापा मत्तद्विरदगामिनी ॥ १२ ॥
कटाक्षैरनुगृह्णाति मां पञ्चेषुशरोत्तमैः ।
इति यां मन्यते मूर्खः स च पञ्चेषुशासितः ॥ १३ ॥
तस्या विवेकं वक्ष्यामि श्रृणुष्वावहितो नृप ।
नच स्त्री न पुमानेष न चैवायं नपुंसकः ॥
अमूर्तः पुरुषः पूर्णो द्रष्टा साक्षी सजीवनः ॥ १४ ॥
या तन्वङ्गी मृदुर्बाला मलपिण्डात्मिका जडा ।
सा न पश्यति यत्किंचिन्न शृणोति न जिघ्रति ॥ १५ ॥


यस्याः सा । ११ ॥ नीलेति। नीलेन्दीवरस्य सदृशं नीलेन्दीवरनीकाशमित्यस्वपदविग्रहः । मयूरव्यंसकादित्वात्समासः । तथाविधनयनद्वयेन शोभिता । संलापो भाषणम् ॥ १२ ॥ कटाक्षैरिति । कटाक्षैरपाङ्गवीक्षणैः पञ्चेषुर्मदनंस्तस्य शरेभ्योऽप्युत्तमैः । अनुगृह्वाति स्वकीयत्वेनाङ्गीकरोति । स पञ्चेषुणा शासितो वशीकृत: अतएव मूर्खः ॥ १३ ॥। तस्याः स्त्रिया विचारम् । अवहितो दत्तचित्तः । तस्या विवेकं वक्ष्यामीत्युक्तं तदेवाह-नचेति । तस्यास्तस्य च शरीरे चेतनत्वेनावस्थित एष परमात्मैव । स च न स्त्री न च पुमान् न वायं नपुंसकः । इमाः संज्ञा अवयविनामेव । अयममूर्तः परिच्छेदरहितः । अतएव पूर्णः द्रष्टा । ननु सर्वस्य द्रष्टृत्वे सुखदुःखादिप्रसङ्गः स्यादितिचेन्न । साक्षी निर्लेपः । जीवनं प्राणधारणं तस्य निर्वहितृत्वात् सजीवनः । यत्सत्तानुविद्धतया प्राणेन्द्रियादयः प्रवर्तन्त इति भावः । एतादृशः परमात्मा न शोकार्ह इति भावः ॥ १४ ॥ ननु जीवः परमात्मैव चेत्तं न शोचामि किंतु तदुपाधिं देहं शोचामीति चेन्मैवमित्याह-या तन्वङ्गीति । मलपिण्ड एव आत्मा स्वरूपं यस्याः सा या तवाभिमता सा न प्रश्यति । यत्किंचिन्न शृणोति न जिघ्रति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/18&oldid=293862" इत्यस्माद् प्रतिप्राप्तम्