पृष्ठम्:शिवगीता.djvu/166

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



१६४
[ अध्यायः १६
शिवगीता ।

 

तद्योगयाज्यदेहांश्व यो गायति ममाग्रतः ।
इह श्रियं परां भुक्त्वा मम सायुज्यमाप्नुयात् ॥ ३८ ॥
ईशावास्यादिमन्त्रान्यो जपेन्नित्यं ममाग्रतः ॥
मत्सायुज्यमवाप्नोति मम लोके महीयते ॥ ३९ ॥
भक्तियोगो मया प्रोक्त एवं रघुकुलोद्धह।
सर्वकामप्रदोऽमर्त्यः किमन्यच्छ्रोतुमिच्छसि ॥ ४० ॥

इति श्रीपद्मपुराणे शिवगीतासूपनिषत्सु ब्रह्मविद्यायां श्रीशिवराघवसंवादे
भक्तियोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥


षोडशोऽध्यायः १६

श्रीराम उवाच ।

भगवन्मोक्षमार्गो यस्त्वया सम्यगुदाहृतः ॥
तत्राधिकारिणं ब्रूहि तत्र मे संशयो महान् ॥ १ ॥

श्रीभगवानुवाच ।


ब्रह्मक्षत्रविशः शद्राः स्त्रियश्चात्राधिकारिणः ॥
ब्रह्मचारी गृहस्थो वाऽनुपनीतोऽथ वा द्विजः ॥ २ ॥


दयः सामभेदाः ॥ ३७ ॥ ३८ ॥ ३९ ॥ हे रघुकुलश्रेष्ठ, अमर्त्यो मरणधर्मरहितः । प्रवाहरूपेण नित्य इति यावत् ॥ ४० । इति श्रीशिवगीतटीकायां पञ्चदशोऽध्यायः ॥ १५ ॥ अस्मिन्नुपनिषत्सारभूते गीताशास्रे केऽधिकारिणः के नाधिकारिण इति जिज्ञासुः श्रीरामो भगवन्तमाह-भगवन्निति ॥ १ ॥ एवं पृष्टो भगवानुवाच-ब्रह्मक्षत्रेति । रूत्रीशूद्रयोः साक्षाच्छ्रवणाधिकांरो नास्ति किंतु ब्राह्मणमग्रतः कृत्वा । "श्रावयेञ्चतुरो वर्णान् कृत्वा ब्रूाह्मणमग्रतः” इति स्मृतेः । सोऽपि स्मृतावेव न श्रुतावधिकार इतेि सिद्धान्तः । शुद्रस्य तदनादरश्रवणातू 'तच्छ्वणात्सूच्यते

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/166&oldid=175635" इत्यस्माद् प्रतिप्राप्तम्