तस्मिन्नन्नमये पिण्डे स्थूलदेहे तनूभृताम् ।
जन्मव्याधिजरामृत्युनिलये वर्तते दृढा ।
आत्मबुद्धिरहंमानात्कदाचिन्नैव हीयते ॥ ६ ॥
आत्मा न जायते नित्यो म्रियते वा कथंचन ॥ ७ ॥
यज्जायतेऽस्ति विपरिणमते वर्धतेऽपि च ॥
क्षीयते नश्यतीत्येते षङ्भावा वपुषः स्मृताः ॥ ८ ॥
आत्मनो न विकारित्वं घटस्थनभसो यथा ।
एवमात्माऽवपुस्तस्मादिति संचिन्तयेद्बुधः ॥ ९ ॥
मूषानिक्षिप्तहेमाभः कोशः प्राणमयो भवेत् ॥
क्षुत्पिपासापराभूतो नायमात्मा यतो जडः ॥ १० ॥
"निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः । वशीकृते मनस्येषां सगुणब्रह्मशीलनातू । तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनाम् ||” इति । ५ । उपक्रान्तन्यायेन पञ्चकोशान्क्रमेण निराकर्तुं प्रतिजानीते--तस्मिन्निति । तस्मिन्स्थूलदेहस्वरूपे अन्नविकारत्वादनमये पिण्डे जन्मव्याध्यादीनां निलये तनूभूतां देहिनां अहंमानादन्तःकरणतादात्म्याध्यासादात्मबुद्धिईढास्ति सा कदापि न हीयते । ६ । आत्मा कीदृश इत्याकाङ्क्षायामाह --अात्मेति । उभयत्र हेतुर्नित्य इति ॥ ७ ॥ देहः कीदृगित्याकाङ्क्षायामाह -यदितेि। एते षड्भावविकारा इत्यर्थः । वपुषो देहस्यैव नात्मनः ॥ ८ ॥ तत्र दृष्टान्तः । यथा विकारित्वं घटस्यैव न तदवच्छिन्नस्य नभसः । एवमात्मवपुषोः परस्परं वैधर्म्ये सति अविद्यया तादात्म्यापन्नोऽहमिति देहमेवात्मेति अज्ञो मन्यते । विवेकी तु आत्मा अवपुरिति विचार्य तस्मादन्यमात्मानं प्राणमयं चिन्तयेत् ॥ ९ ॥ एवं प्रागुक्तवैधर्म्यबलेनान्नमयस्यानात्मत्वे निर्णीते तत आन्तरः प्राणमय अात्मत्वेन नोपदेष्टव्य इत्याशयेनाह-मूषेति ।