पृष्ठम्:शिवगीता.djvu/151

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



१४९
बालानन्दिनीव्याख्यासहिता ।

 

चतुर्दशोऽध्यायः १४
श्रीराम उवाच ।
भगवन्यदि ते रूपं सच्चिदानन्दविग्रहम् ।
निष्कलं निष्क्रियं शान्तं निरवद्दृद्यं निरञ्जनम् ॥ १ ॥
सर्वधर्मविहीनं च मनोवाचामगोचरम् ।
सर्वव्यापितयात्मानमीक्षते सर्वतः स्थितम् ॥ २ ॥
अात्मविद्यातपोमूलं तद्रह्मोपनिषत्परम् ॥
अमूर्तं सर्वभूतात्माकारं कारणकारणम् ॥ ३ ॥


दिभिः संदिहानचित्तस्त्वं नित्यमिमं मोक्षसाधनीभूतक्रममनुष्ठातुमसमर्थश्वेत्तर्हीममध्यायं नित्यं पठ । तेनैव मोक्षमाप्स्यासि । कालान्तरेणोक्तसाधनसंपन्नः सन्नित्यर्थः । रामं निमित्तीकृत्य लोकानुग्रहार्थमयं गीतोपदेशो नतु रामं प्रति । तस्य ब्रह्मरूपत्वादिति हृदयम् ।।३८।। इति श्रीलक्ष्मीनरहरिसूनुविरचितायां शिवगीताटीकायां बालान: न्दिन्यां मोक्षयोगो नाम त्रयोदशोऽध्यायः ।। १३ ।। एवं महता प्रबन्धेन ब्रह्मसाक्षात्कारसाधनानि प्रतिपादितानि तानि श्रुत्वा पुनरुपायान्तरमाकाङ्क्षमाणः श्रीराम आह-भगवन्नितेि । यदीत्यस्य यद्यपीत्यर्थ:। हे भगवन् , ते रूपं सच्चिदानन्दात्मकं निष्कलं अवयविरहितं निष्क्रियं उत्क्षेपणादिपञ्चविधकर्मरहितं अतएव शान्तं निस्तरङ्गसमुद्रसदृशम् । निरवद्यं निर्दोषम् ।। "अपापविद्धम्" इति श्रुतेः । निरञ्जनं निःसङ्गम् ॥ १ ॥ सर्वधर्मविहीनं धर्मधर्मिकल्पनाया अविद्यामूलकत्वात्। अतएव मनोवाचामगोचरं सर्वतः स्थित आत्मानं बिम्बभूतं त्वां प्रति यथावंत् ईक्षते प्रकाशते । सर्वव्यापितया सर्वत्रानुस्यूततयेत्यर्थ: । तव मायोपहेितत्वेऽप्यनावृत्तस्वरूपत्वादिति भावः ॥ २ ॥। अनावृतस्वरूपस्य बिम्बीभूतस्येश्वरस्य- तव यत्सर्वदा प्रत्यक्षं तद्वस्तु कीदृशं तदाह--अात्मेति । अात्मविद्या च,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/151&oldid=175432" इत्यस्माद् प्रतिप्राप्तम्