पृष्ठम्:शिवगीता.djvu/124

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



१२२
[ अध्यायः ११
शिवगीता ।

 


इष्टापूर्तानि कर्माणि योऽनुतिष्ठति सर्वदा ।
पितृलोकं व्रजत्येष याममाश्रित्य बर्हिषः ॥ १४ ॥
धूमं रात्रिं गतः कृष्णपक्षं तस्माच्च दक्षिणम् ।
अयनं च ततो लोकं पितृणां च ततः परम् ।
चन्द्रलोके दिव्यदेहं प्राध्य भुङ्क्ते परां श्रियम् ॥ १५ ॥
तत्र चन्द्रसमानोऽसौ यावत्कर्मफलं वसेत् ।
तथैव कर्मशेषेण यथेतं पुनराव्रजेत् ॥ १६ ॥


इष्टेति । इष्टानि यज्ञान्, पूर्तानि तडागारामादीन् यः सर्वदानुतिष्ठति एष सुकृती यामं यमसंबन्धिनं दूतमाश्रित्य तेन नीयमानः सन्नित्यर्थः । बर्हिषः श्रौतस्मार्ताग्नेश्च हेतुभूतादित्यर्थः । यागस्याग्निसाध्यत्वात्सोऽपि तत्र परम्परया प्रयोजक इति भावः । पितृलोकं व्रजति । "कर्मणा पितृलोकः" इति श्रुतेः ।। "बर्हिः शुष्मा कृष्णवर्मा”इत्यमरः । अत्र बर्हिरिति पृथक्पदं बर्हिर्मुखा इति दर्शनादिति क्षीरस्वामी ॥१४॥ धूममिति ।। "अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति" इत्युपक्रम्य “आकाशाञ्चन्द्रमसम्" इत्यन्तेन धूमादिः पितृयाणः पन्था इष्टादिकारिणां श्रुतावुक्तः । तदेतदाह प्रथमं धूमं ततो रात्रिं ततः कृष्णपक्षं तस्माद्दक्षिणायनं ततः पितॄणां लोकं ततश्चन्द्रलोकं गतः सन् दिव्यदेहं प्राप्य चन्द्रसमानोऽसाविष्टादिकारी परां श्रियं भुङ्क्ते । यावत्कर्मफलं तत्र वसेत् । धूमो रात्रिः कृष्णपक्षो दक्षिणायनं चेत्याद्या आतिवाहिका देवता निर्देिश्यन्ते ता एनमिष्टादिकारिणं चन्द्रलोकं प्रापयन्ति । तदुक्तं गीतायाम् "धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥” इतेि । तथा च यदाकदावा मृतमुपासकमग्न्यादय आतिवाहिका ब्रह्मलोकं प्रापयन्तीति तथेष्टा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/124&oldid=162681" इत्यस्माद् प्रतिप्राप्तम्