पृष्ठम्:शिवगीता.djvu/121

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



११९
बालानन्दिनीव्याख्यासहिता ।

एकादशोऽध्यायः ११

 


श्री भगवानुवाच ।


देहान्तरगतिं तस्य परलोकगतिं तथा ।
वक्ष्यामि नृपशार्दूल मत्तः शृणु समाहितः ॥ १ ॥
भुक्तं पीतं यतस्तत्र तद्रसादामबन्धनम् ।
स्थूलदेहस्य लिङ्गस्य तेन जीवनधारणम् ॥ २ ॥
व्याधिना जरया वापि पीड्यते जाठरोऽनलः ।
श्लेष्मणा तेन भुक्तान्नं पीतं वा न पचत्यलम् ॥ ३ ॥
भुक्तपीतरसाभावात्तदा शुष्यन्ति धातवः ।
भुक्तपीतरसेनैव देहे लिम्पन्ति वायवः ॥ ४ ॥


गमनागमने कथमिति प्रश्ने लिङ्गोपाधिवशादित्युत्तरं दत्तं तदेव विशदयितुमेकादशोऽध्याय आरभ्यते--देहान्तरेति । नृपशार्दूल राजश्रेष्ठ, मत्तः मत्सकाशात् । अवहितः सावधानः ॥१॥ भुक्तमिति । यत इति प्रथमान्तात्तसिः । भुक्तं पीतं च यतः यदित्यर्थः । तस्य रसात्परिणामविशेषात्स्थूलदेहस्य लिङ्गस्य च परस्परं आमबन्धनं नूतनबन्धनं भवतीति शेषः । तेन दृढबन्धनेन जीवस्य प्राणवायोर्धारणं भवति ।।२। व्याधिनेति। व्याधिना रोगेण जरया वा प्रेरितेन श्लेष्मणा जाठरो जठरसंबन्धी अनल: पीड्यते । तेन कारणेन कुण्ठितशक्तिरग्निर्भुक्तान्नं पीतं वा अर्ं पर्याप्तं न पचति॥३॥ मुक्तेति। भुक्तपीतयो रसस्य परिणामविशेषस्याभावात् तदा धातवस्त्वगसृङ्मांसादयः शुष्यन्ति । धातुवृद्धिप्रकारमाह । भुक्तपीतयोः प्रदीप्तेन जाठराग्निना पाचितयो रसेन वायवः प्राणादयो देहे धातून् लिम्पन्ति । उपचयं प्रापयन्तीति यावत् । अत्र धातुवायुप्रकरणवशाद्यथायथं तेषां तेषां-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/121&oldid=163721" इत्यस्माद् प्रतिप्राप्तम्