पृष्ठम्:शिवगीता.djvu/12

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



बालानन्दिनीव्याख्यासहिता ।

 
ऋद्धं किंचित्समादाय क्षुल्लकं जलमेव वा ।
यो दत्ते नियमेनासौ तस्मै दत्ते जगत्त्रयम् ॥ २३ ॥
तत्राप्यशक्तो नियमान्नमस्कारं प्रदक्षिणाम् ॥
यः करोति महेशस्य तस्मै तुष्टो भवेच्छिवः ॥ २४ ॥
प्रदक्षिणास्वशक्तोऽपि यः स्वान्ते चिन्तयेच्छिवम् ॥
गच्छन्समुपविष्टो वा तस्याभीष्टं प्रयच्छति ॥ २५ ॥
चन्दनं बिल्वकाष्ठस्य पुष्पाणि वनजान्यपि ।
फलानि तादृशान्येव यस्य प्रीतिकराणि वै ॥
दुष्करं तस्य सेवायां किमस्ति भुवनत्रये ॥ २६ ॥
वन्येषु यादृशी प्रीतिर्वर्तते परमेशितुः ।
उत्तमेष्वपि नास्त्येव ग्रामजेष्वपि तादृशी ॥ २७ ॥
तं त्यक्त्वा तादृशं देवं यः सेवेतान्यदेवताम् ।
स हि भागीरथीं त्यक्त्वा काङ्क्षते मृगतृष्णिकाम् ॥२८॥


नेश्वरभक्तौ कोऽपि प्रयास इत्याशयेनाह-ऋद्धमिति । विभवे सति सर्वोपचारपूर्णं वा भवतु दारिद्र्ये सति क्षुल्लकं स्वल्पं जलमेव वा भवतु । तत्समर्पणमेव मुख्यमिति भावः । उभयोरपि फलसाम्यमाह-जगत्रयमिति । भक्तकृतनियम एवेश्वरस्य प्रीतिर्नतु प्रदेयवस्तुविशेष इति भावः ॥ २३ ॥ २४ ॥ प्रदक्षिणास्विति । स्वान्ते मनसि । आसनादिनियमोऽपि नास्तीत्याह--गच्छन्निति ॥ २५ ॥ अतिसौलभ्यमाह सार्धेन श्लोकेन-चन्दनमिति । दुष्करं दुःसंपादम् ॥ २६ ॥ सहजसरलत्वं शिवस्याह-वन्येष्विति । "यादृगादौ सूत्रमते कर्मकर्तरि कृत्स्मृतः । महाभाष्ये त्विवेत्यर्थे दृग्दृशौ तद्धितौ मतौ ॥” इति ।। २७ । अभक्तं निन्दति-तमिति । इन्द्रादयः सर्वेऽपि जीवा एव पुण्यविशेषेण देवत्वं प्राप्तास्तां यां च कां-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/12&oldid=293444" इत्यस्माद् प्रतिप्राप्तम्