|
त्येव अनुसंधत्त इत्यर्थ: ॥ ५६ ॥ ननु न किंचिदवेदिषमित्याज्ञानानुसंधानमपि कथं तत्राह--अज्ञानमपीति । न केवलं सुखमेवानुसंधत्ते किंतु अज्ञानमपि । साक्ष्यादिवृत्तिभिः स्वापकालीनाभिरविद्यावृत्तिभिरज्ञानमप्यनुभूयते । अतस्तदनुसंधत्ते न किंचिदवेदिषमिति । उक्तंच पञ्चपादिकायाम् "सुषुप्त्यादौ चाहंकारादिविक्षेपः संस्कारमात्रशेषं स्थित्वा पुनरुद्भवति” इति ॥ ५७ ॥ तदेवमवस्थात्रयं निरूपितम् । इदं च इहलोकपरलोकयोः साधारणमित्याह-- जाग्रदिति । देवादीनामप्यवस्थात्रयमस्त्येवेति शेषः । अमुत्र लोको देवादीनामुपलक्षणार्थः । सुषुप्त्यनन्तरं जाग्रत्प्रपञ्चः पुनरुद्भवतीति सदृष्टान्तमाह--पश्चादिति । सुषुप्त्यनन्तरमित्यर्थः । जाग्रदवस्थादृष्टवशात्कारणात् जीवाज्ञानादेव सूक्ष्मरूपेणावस्थितानि बुद्ध्यादिकानि पुनर्जायन्ते । स्थूलाकारेण परिणमन्तीत्यर्थः। तत्र दृष्टान्तः । अनलाद्विस्फुलिङ्गा इव ॥ ५८ ।।॥ दृष्टान्तान्तरं च--पयःपूर्णेति । अजात्परमात्मनः सकाशात् । अनेन भेद एव तयोः सूचितः । उभयोरप्युपाधिसत्वात् ॥ ५९॥ अध्यायोपक्रमे जीवस्वरूपं कथमिति-