सामग्री पर जाएँ

पृष्ठम्:शिवगीता.djvu/116

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



११४
[ अध्यायः १०
शिवगीता ।

 

निःशेषबुद्धिसाक्ष्यात्मा स्वयमेव प्रकाशते ।
वासनामात्रसाक्षित्वं साक्षिणः स्वाप उच्यते ॥ ४६ ॥
भूतजन्मनि यद्भूतं कर्म तद्वासनावशात् ॥
नेदीयस्त्वाद्वयस्याद्ये स्वप्नं प्रायः प्रपशयति ॥ ४७ ॥
मध्ये वयसि कार्कश्यात्करणानामिहादितः ।
प्रायेण वीक्षते स्वप्नं वासनाकर्मणोर्वशात् ॥ ४८ ॥
इयासुः परलोकं तु कर्म विद्यादिसंभृतम् ॥
भाविनी जन्मनो रूपं स्वप्न अात्मा प्रपशयति ॥ ४९ ॥


त्वमितीयान्भेद् इति भावः ।। ४५ ॥ निःशेषेति । निःशेषाणां बुद्धीनां बोधविषयाणाम् । कर्मणि क्तिन् । साक्षिभूत आत्मा स्वयमेव प्रमाणजन्यवृत्तिनिरपेक्षः सन्नेव प्रकाशते । सर्वत्र प्रातिभासिकरजतादिस्वप्नस्थले तत्तदाकारविद्यावृत्तिः सांप्रदायेिकैरङ्गीकृता । तस्मात्स्वप्नस्तु केवलमक्षिभास्य एव । केवलसाक्षिभास्यत्वं नाम इन्द्रियानुमानादिप्रमाणव्यापारमन्तरेणाविद्यावृत्त्यैव भास्यत्वम्। साक्षी तूक्तप्रकारेण स्वयमेव भासत इति भावः । तदेतत्पूर्ववासनामात्रसाक्षित्वं यत्साक्षिणः स स्वापः स्वप्न उच्यते ॥४६॥ भूतजन्मनीति । भूतानामनुभूतानां व्यावहारिकाणां जन्मनि। जाग्रत्काले इतियावत्। यद्यद्भुतं स्तन्यपानकन्दुकक्रीडादिकं कर्म तद्विषयवासनाप्राबल्यादाद्ये वयसि स्वप्नमपि प्रायस्तद्रूपं पश्यति । अत्र हेतुः । नेदीयस्त्वादिति । संनिहितकालिकानुभवगोचरसजातीयत्वादित्यर्थः । अतिशयेनान्तिकं नेदीयः ।। "अन्तिकबाढकयोर्नेदसाधौ” इति नेदादेशः ॥ ४७ । मध्य इतेि ! तारुण्ये करणानामिन्द्रियाणां कार्कश्श्यात्पाटवादर्दितः बहुतरव्यापारपीडित: सन् वासना संस्कारस्तत्सहितं यत्कर्म स्वस्वोचिताध्ययनयुद्धकृषिवाणिज्यादि जाग्रत्कालानुभूतं तत्सजातीयमेव संस्कारवशात्प्रायेण वीक्षते-पश्यतेि ॥ ४८ ॥ इयासुरिति । परलोकं स्वर्गं नरकं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/116&oldid=161703" इत्यस्माद् प्रतिप्राप्तम्