सामग्री पर जाएँ

पृष्ठम्:शिवगीता.djvu/102

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



९९
बालानन्दिनीव्याख्यासहिता ।

 

मेधावितां तथा दत्ते जलात्तु रसनं रसम् ।
शैत्यं स्नेहं द्रवं स्वेदं गात्रादिमृदुतामपि ॥ ३६ ॥
भूमेर्धाणेन्द्रिर्य गन्धै स्थैर्यं धैर्यं च गौरवम्।
त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ॥ ३७ ॥
अन्नं पुंसाशितं त्रेधा जायते जठराग्निना ॥
मलं स्थविष्ठो भागः स्यान्मध्यमो मांसतां व्रजेत् ॥
मनः कनिष्ठो भागः स्यात्तस्मादन्नमयं मनः ॥ ३८ ॥
अपां स्थविष्ठो मूत्रं स्यान्मध्यमो रुधिरं भवेत् ॥
कनिष्ठभागः प्राणः स्यात्तस्मात्प्राणो जलात्मकः ॥ ३९ ॥


सूक्ष्मं सूक्ष्मत्वं काशर्यमित्यर्थः । भावप्रधानो निर्देशः । कारकशेषे षष्ठी न माषाणामश्नीयादितिवत् । ओोजः शरीरस्थितिप्रयोजकस्तेजोविशेषः । तेजः संतापः । शूरता पराक्रमः ॥३५॥ मेधावितां धारणावत्त्वम् । एतान्धर्मान् । जलात्तु रसनादीनादत्त इत्यन्वयः । रसनमिन्द्रिय रसं षड्विधं शैत्यं स्नेहं चिक्कणताम् द्रवं मुखादौ लालादि । स्वेदं घर्मं शरीरस्य। आदिशब्दात्करचरणाद्यवयवानां मृदुतां कोमलताम् ॥ ३६ ॥। भूमिसंबन्धिनं भावमाह---भूमेरिति । गौस्वं गरिमाणम् । प्रसङ्गाच्छरीरधारकान्सप्तधातूनाह--त्वगिति । उक्तार्थः ॥ ३७॥ प्रसङ्गाद्भुक्तान्नादेः परिणामभेदमाह--अन्नमिति । पुंसाम् । उपलक्षणमेतत्पश्वादीनामपि । अशितं भक्षितं जठराग्निना पच्यमानं त्रेधा जायते । तत्र स्थविष्ठः स्थूलो भागः मलं पुरीषं स्यात् । मध्यमो भागः मांसतां व्रजेत् । कनिष्ठो मनः स्यात् ।। "अन्नमयं हि सौम्य मनः” इति श्रुतेः । मनसः पञ्चभूतकार्यत्वेऽपि अन्नस्य तदुद्वलकत्वादन्नमयमित्युच्यते । एवं _"आापोमयः प्राणस्ते-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:शिवगीता.djvu/102&oldid=160041" इत्यस्माद् प्रतिप्राप्तम्