पृष्ठम्:शब्दापशब्दविवेकः.djvu/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ७ )

अव्ययेषु तु पुनः खल्वादयो वाक्यादौ निषिद्धाः । तं तु देशं न पश्यामि यत्र भ्राता सहोदर इति साध्वी पदानुपूर्वी । ये पुनरधर्मेणैधते जनो न धर्मेणेति मते स्थितास्ते भ्रान्ताः। न खलु न खलु बाणः संनि पात्योऽयमस्मिन् । विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । जघान कंसं किल वासुदेवः। अर्हति किल कितव उपद्रवम् । इमानि वाक्यानि पुनरादयो नारभन्त इति साधूनि भवन्ति । अत्र ‘न पादादौ खल्वादय' इति काव्यालङ्कारसूत्रमप्यनुकूलम् । जातुशब्दोपि वाक्यादौ न प्रयुज्यते प्रायेण-न जातु कामः कामानामुपभोगेन शाम्यति । क्वचित्त्वादावपि शक्यमिदं प्रयोक्तुमित्यत्र न जात्वपूर्वम् (८।१।४७ ) इति पाणिनीयं सूत्र लिङ्गम् । चेच्छब्दश्च न वाक्यादौ प्रयुज्यत इति चेत्कृष्णं नंस्यसि स्वर्गं यास्यसीति न शक्यं वक्तुम् । इदं चात्रापरमवधेयम्—चेच्छब्दप्रयोग उत्तरवाक्ये तदा तर्हीत्यादि पदं न दीयते । कृष्णं चेन्नंस्यसि तदा ( तर्हि ) स्वर्गं यास्यसीत्येवं वक्तारो व्यवहारमतियन्ति ।

 उक्तः पदक्रमः। लिङ्गसंख्ये सम्प्रत्युच्येते । इदं तावदभ्युपेयं दुर्ग्रहो लिङ्गभेदः। अन्तर्वाणयोप्यत्र मुह्यन्ति । वैयाकरणाः खलु प्रत्ययतो लिङ्गमुन्नयन्ति प्रायेण। न च सर्वत्र प्रत्ययाश्रय एव लिङ्गावसायो लोका- श्रयश्चापि। नदी कुमारी स्त्री गौरी मतिरीहा ब्रह्मबन्धूरित्यादिषु प्रत्ययतो लिङ्गोन्नयः। । अवीलक्ष्मीतरीतन्त्रीह्रीधीश्रीषु तु लोकतः। कश्चिच्छब्द एकार्थक एव नानालिङ्गको दृष्टः । तटस्तटी तटम् । कश्चिदर्थभेदे लिङ्गभेद- मुपगच्छति । यथा-काननवाच्यरण्यशब्दो नपुंसकम् , महत्त्वविशिष्टः स एव स्रियां भाष्यतेऽरण्यानीति । सरस्वच्छब्दः पुंसि समुद्रमाह, स्त्रियां तु नदीविशेषं सरस्वतीम् । गोष्ठमिति गवां स्थानमाह, गोष्ठीति च संसदम् । गन्धवहः पुमान् वायुमाचष्टे, गन्धवहा स्त्री तु नासिकाम् । दुरोदर इति कितवं वक्ति, दुरोदरमिति च द्यूतम् । सर इति कासार इत्युच्यते, सरसीति च महत्सरः । जलाशयो जलाधारो भवति, जलाशयं तूशीरम्। पिशुनं कुङ्कुमं भवति, पिशुनस्तु सूचकः, पिशुना तु सूचिका नारीत्यलं विस्तरेण ।