पृष्ठम्:शब्दापशब्दविवेकः.djvu/८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ६ )

समासक्रमोपि ज्ञापकः । स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने इति नानार्थवर्गेऽमरः। तत्र वणिजो धनं वणिग्धनमिति पूर्वं षष्ठीसमासः । ततः किंलक्षणं तदित्याकाङ्क्षायां मूलं च तद्वणिग्धनं चेति मूलवणिग्धनमिति विशेषणसमासः। अन्यत्रापि स एव ‘कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने’ इति पठति । तत्रापि पूर्वम् इभस्य बन्धनमिभ बन्धनमिति षष्ठीसमासः,ततस्तन्मध्यशब्देन विशिष्यते । एवं माल- विकाग्निमित्रे सर्वान्तःपुरवनिताव्यापारप्रतिनिवृत्तहृदयस्येति प्रयोगेपि पूर्वमन्तः पुरवनितानां व्यापार इति षष्ठीसमासः, ततः सर्वशब्देन कर्मधारयः।

 बहुव्रीहौ समासेपि पदानां क्रमो वाक्यगतस्य क्रमविशेषस्य समर्थकः। वृतः श्रिया भास्वरसर्वदेहः (रा० ३।७३।४६) इत्यत्र, तां दृष्ट्वा चारुसर्वाङ्गीम् ( रा० ६।८१।१७ ) इत्यत्र च सर्वशब्दस्य विशेष्यादव्यवहितपूर्वं निपातः, ततो विशेषणान्तरस्य भास्वरस्य चारुणश्च। सर्वोपसर्जननो बहुत्रीहिरिति यस्य कस्यैकतरस्य पूर्वनिपातो न्याय्यो भाति, न चैवं भवति । लोको नानुजानाति । वाक्येनाभिधाने प्राप्त एव समास आरभ्यत इति वाक्यगतः पदक्रम एव समास आश्रीयते, तस्यैव न्याय्यत्वात् । तेन वाक्येपि भास्वरः सर्वो देहोऽस्येति क्रमः। चारूणि सर्वाण्यङ्गान्यस्या इति च । तस्माद्वाक्ये सर्वादिभिः सर्वनामभिर्विशेष्यादव्यवहितपूर्वं निपतितव्यं विशेषणान्तरैश्च गुणवचनैस्ततो व्यवहितैरिति क्रमनैयत्यं भाति । एवं परमः स्वो धर्मोऽस्येति परमस्वधर्म इति समासान्तेषु दीक्षितवचोपि वाक्येऽमुमेव क्रममनुमापयतीति दिक् ।

निघातयुष्मदस्मदादेशा वाक्यादौ न प्रयुज्यन्ते । नमस्त इति निर्दुष्टाऽऽनुपूर्वी, ते नम इति दुष्टा। कल्याणमस्तु च इति भवति, न तु वः कल्याणमस्त्विति । वाकारेण चकारेण एवकारेण च युक्ता अमी वाक्यमध्येप्यप्रयोज्याः। इदं ते च मे च साधारणं स्वमिति दुष्टो न्यासः। तव च मम चेत्यादिस्तु शिष्टः। इदं पारितोषिकं त्वाऽभिगच्छतु मा वेति वचनीयो विन्यासः । त्वां वाऽभिगच्छतु मां वेति तु प्रशस्यः ।