पृष्ठम्:शब्दापशब्दविवेकः.djvu/७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ५ )

उपाख्यानोपक्रमः प्रायेणास्तिना क्रियते । अस्त्ययोध्यायां चूडामणिर्नाम क्षत्रिय इत्यादिः । अद्य सप्त वासरास्तस्येतो गतस्य ।एत्त्द्वाक्यगतोपि पदक्रमो नियतप्राय इत्यवश्यमुररीकरणीयम् । अयमेव च क्रमोऽपरपञ्चालेषु (पञ्चापदेशे) लोकभाषायामित्यस्य न्याय्यत्वे दृढं लिङ्गम् । अत्र हि संस्कृतं सर्वप्रथमं चिरतरं च प्रचचार । अत्रैव पाणिन्यादयो मुनयो जनिं लेभिरे । इदमेव च सारस्वत धाम पूर्वे प्रपेदिरे वाच्यभि- विनयस्य कामुकाः। तथा च कौषीतकिन आमनन्ति- तस्मादुदीच्यां दिशि प्रज्ञाततरा वागुद्यते । उदञ्चउ एव यन्ति वाचं शिक्षितु यो वा तत आगच्छति तस्य वा शुश्रूषन्त इति ( कौ० ७।६॥ ) तस्मादिहत्या वाक्छैली प्रकृतं क्रमं चेदुपोद्बलयति नूनं बद्धभूमिरयं भवति । यद्यपि ‘यस्य येनास्ति सम्बन्धो दूरस्थेनापि तस्य सः,' इति व्यवहितविप्रकृष्टोपि सो ऽवगम्यते, तथापि नेह निरवग्रहं प्रभवन्ति वक्तारो वक्तुम्। लोको हि वारयति । इच्छति च क्रमं कञ्चित् । अत एवाक्रमताऽस्थानस्थपदता संकीर्णता चेति दोषत्रितयं वाक्यगतं निर्दिशन्त्यालंकारिकाः । अक्रमता यथा-कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी । अत्र त्वमित्यस्यानन्तरं चकारो युक्तः। अस्थानस्थपदता यथा-हितान्न यः संश्रुणुते स किंप्रभुः। अत्र संश्रृणुत इत्यतः पूर्वं नञः स्थितिरुचिता। संकीर्णता यथा-चन्द्रं मुञ्च कुरङ्गाक्षि मानं पश्य नभोङ्गने । अत्र नभोङ्गने चन्द्रं पश्य मानं मुञ्चेति युक्तम् ।

 वाक्ये षष्ठयन्तं विशेषणं विशेषणान्तरेणाव्यवहितं विशेष्यात्पूर्वं प्रयुज्यत इति शिष्टव्यवहारः। सर्वगुणसम्पन्नस्तस्य सुतः कस्य स्पृहां न जनयति । एकातपत्त्रं जगतः प्रभुत्वमिति कालिदासश्च । न ह्यत्र जगत एकातपत्रं प्रभुत्वमित्येवं क्रमः शक्यो विपर्यासयितुम्। न ब्रूमो वृत्तभङ्गभयादिति । किन्तर्हि व्यवहारातिक्रमादिति । एवं हि व्युत्क्रमेणोच्यमाने व्यवहारोतिक्रान्तो भवतीति । एवं सर्वैर्योषितां गुणैरलंकृतेत्यनुक्त्वा योषितां सर्वैर्गुणैरलंकृतेति न युज्यते वक्तुम् । किं च भवति यद्युच्येत । वैरस्यमुद्वेगो वा। स नेष्यते । अयमेवेष्टः पदक्रम इत्यत्र