पृष्ठम्:शब्दापशब्दविवेकः.djvu/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ४ )


परिहरन्ति तत् प्रयोगचणाः । तद्यथा-यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्येन सर्वस्य कटुरेव सः ॥ अत्र च्छिनत्त्यादयः क्रिया अश्रुता अपि स्फुटावगमाः। एवम्--मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वाहिनीजलभरः कुलिशं वा स्वस्ति तेस्तु लतया सह वृक्ष ॥ इत्यत्रापि धाक्षीदित्यादयोनुक्ता अपि क्रियाः स्फुटमवभासन्ते इति निरवद्य वचः । अस्त्येवज्जातीयके विषये आदिकविना कृतः क्रियापदस्य परिहारः, स दृश्यताम्-श्रुणु मैथिलि मद्वाक्यं मासान्द्वादश भामिनि । (रा० ३।५६।२४) इति । अत्र प्रतीक्षिष्य इति शेषः सहसैवोपतिष्ठते न च यत्नं प्रतीक्षते । यश्चैवं कथने विच्छित्तिविशेषस्तस्य सहृदया अभिज्ञा इति नार्थो वाग्विलापनेन । संभ्रमे वाक्यकारो द्विरुक्तिं पदस्य विधत्ते । रक्ष रक्ष व्याघ्रो मामाघ्रातुमिच्छति । परं संभ्रमे तिडन्तपदपरिहारोपि दृश्यते । आपस्तावत् । इमा आपः । आसनं तावत् । इदमासनम् । इदमत्र तत्त्वं बोध्यम् । क्रियोच्चारो हि विलम्बयत्यर्थप्रतीतिं निदिश्यमानार्थप्रतिपत्तिं * च। इष्यते चाकालहीनं प्रवृत्तिः । सा च लघुनैव न्यासेन शक्या न गुरुणेति सुग्रहं सुधीभिः । आपस्तावदाह्रियन्तामित्यधिककालोच्चार्यं वाक्यं समाहितस्येष्टं स्यान्न संभ्रान्तस्य ।

 इत्थम्भूते वाक्ये कीदृशः पदानां क्रम इत्यधिकृत्य किञ्चिद्ब्रूमः । पात्र- माहर, आहर पात्रमित्येवं वाक्ये पदानां यथेष्टमभिसम्बन्धः क्रियते । तेनान्यत्रापि नियतः पदानां क्रमः कश्चिन्नास्तीत्युक्तं भवति । रामः सीतां परिणिनाय । सीतां रामः परिणिनाय । परिणिनांय सीतां रामः। परिणिनाय रामः सीतम् । सीतां परिणिनाय राम इति रामकर्तृकः सीताकर्मको भूतानद्यतनपरोक्षवृत्तिः परिणय इत्यर्थो येन केनापि पदक्रमेण शक्यो वक्तुम् । अत्र वक्तॄणां कामचारः । परमिदं प्रायिकम्। क्वचिन्नियतापि पदानुपूर्वी काचिदस्तीति नापलापमर्हति । तद्यथा।


  • अनुष्ठानम् ।