पृष्ठम्:शब्दापशब्दविवेकः.djvu/५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३ )

तव्यं सम्पत्स्यन्ते शालय इति । सिद्धमेतत्। कथम् । भविष्यत्प्रतिषेधात् । यल्लोको भविष्यद्वाचिनः शब्दस्य प्रयो न मृष्यति । कश्चिदाह देवश्चेद्वृष्टः सम्पत्स्यन्ते शालय इति । स उच्यते मैवं वोचः, सम्पन्नाः शालय इत्येवं ब्रूहीति (३।३।१३३ ॥) । यद्यप्यन्वयवन्त्यर्थवन्ति च पदानि वाक्यं भवतेि तथापि तेत्रैकेन तिङन्तेन भवितव्यमिति नियम्यते । तच्च तिङन्तं पदं न सर्वत्र श्रूयते, क्वचिद् गम्यते चापि । क्व चेदमनुक्तमपि गंस्यते । क्वाऽस्य परिहारो न केवलं वाक्यदुष्टये न भविष्यत्युपस्कृतये चापीति शिष्टशैलीत एव शक्यमध्यवसातुम् । अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोप्यस्तीति भाष्याच्छक्यतेऽनुमातुमस्तेर्लट्परकस्याप्रयोगोपि दोषावहो न भवतीति ।+ कोऽसौ । का प्रवृत्तिः । एको देवः सर्वभूतेषु गूढ़ः| असाधुदर्शी किलाऽसौ । अहो मधुरमासां दर्शनम् । अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोश्वा इत्यादिष्वप्रयोगोस्तेर्वाक्यस्य लाघवाय भवति माधुर्याय च । भाष्यवचने पुरुषप्रहणमतन्त्रम् । अन्यत्राप्यस्तेस्त्यागो न दोषाय कस्त्वं भो इत्यादिषु । परं त्यागः क्वाचित्कः प्रयोगस्तु प्रायिकः । परमस्तिरयं न शक्यो वाक्योपक्रमे परित्यक्तुम्। अस्ति पुण्यकृतामधिवासो वासवावास इव वसुधामवतीर्णः..श्रीकण्ठो नाम जनपद इति श्रीहर्षचरिते । अन्यत्रापि धात्वन्तरस्याप्यप्रयोगमनुमन्यन्ते शिष्टाः। प्रविश पिण्डीम्। इह भुङ्क्ष्वेति त्यक्तम् । तदन्तरेण तदर्थगतेः। इति शङ्करभगवत्पादाः,इति गुरुचरणा इत्यादिषु मतो पन्यासात्मकेषु वाक्येष्वाहुर्मन्यन्ते परयन्ति प्रतिजानत इत्यादि तिङन्तं गम्यमानमपि वाक्यालंकृतये भवति । जुषन्ते हि शिष्टास्तम्प्रकारमास्वादन्ते च रसज्ञा दोषज्ञाः । यत्रापि क्वचिद्योग्यक्रियाध्याहारो न दुष्करः, किन्तर्हि निगदसमकालं तत्तत्क्रियापदं बुद्धिमुपारोहति तत्रापि


+ इदमत्र बीजं बोध्यम्-सर्वपदार्थेषु चास्ति वाक्यशक्तिः । वृक्ष इत्युक्तेऽस्तीति गम्यते । न सत्तां पदार्थो व्यभिचरतीति ( योगभाष्ये ३|१७॥ ) ।