पृष्ठम्:शब्दापशब्दविवेकः.djvu/४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २ )

गृह्यते । तत्कस्मात्। अनभिधानात् । किमिदमनभिधानं नाम । शिष्टैरप्रयुक्तत्वम् । नहि शिष्टाः श्राद्धे पुरुषे विषये शारदिकशब्दं प्रयुञ्जते । महा- भागास्ते सामान्येन विहितमपि ठञं तत्रार्थे नेच्छन्ति । तेन दीव्यति खनति जयति जितम् (४|४|२ ) । अत्र जितमित्यर्थे सामान्येन ठग्विहितः, देवदत्तेन जितमित्यत्र न भवति, अनभिधानात् । एवमङ्गुल्या खनतीत्य- त्रापि न, अनभिधानादेव। तस्येदम् (४।३।१२०) इति सामान्येनाणादयो घादयश्च विधीयन्ते । अण्युपगोरिदमौपगवम्। परं देवदत्तस्यानन्तर मित्यत्र न भवत्यण्, अनभिधानात् । समानकर्त्तृकेषु तुमुन् (३।३।१५८) इत्यनेनेच्छार्थेषु धातुषूपपदेषु धातुमात्रात्तुमुन्विहितः| इह कस्मान्न भवति। इच्छन्करोति । अनभिधानादेव । इत्यलं निदर्शनाय शिष्टप्रयोगाः प्रधान- मुपसर्जनं व्याकरणमित्यस्यार्थस्य । अयमत्र सारः । शिष्टैः प्रयुक्तपूर्वा एव शब्दाः शास्त्रेण संस्क्रियन्तेऽ नुशिष्यन्तेऽन्वाख्यायन्ते वा । तस्माद् व्याकरणमन्वाख्यानस्मृतिरिति संविज्ञायते । तत्रापि नेदं युज्यते वक्तुं तावन्त एव शब्दः सन्ति यावन्तश्शास्त्रेण परिगृहीता इति । अनन्वाख्याता अपि भूरय इति तेषां साधुत्वेपि शिष्टा एव मानम् ।

 शिष्टा एव सर्वत्र वाग्व्यवहारे प्रमाणमिति यदुक्तमधस्तात्तत् सम्प्रति प्रसिषाधयिषामः। इदं तावद् व्यवस्थितं यां वाग्वर्तनीमनुवर्तन्ते शिष्टा- स्तामेवानुविवृत्सति लोकः । का नाम निरवद्या वाक्यप्रणीतिरिति शिष्टपद्ध- तेरेव शक्यमञ्जसा विज्ञातुम् । तत्र हि त एव प्रमाणं नेतरे । तन्मुखप्रेक्षी लोको यथाजातीयकं वाग्विन्यासं ते प्रयुञ्जते तथाजातीयकमेव स प्रमाणी- कुरुते । यथा विधया ते तं तमर्थं सन्दृभवन्ति तामेवानुकरोति लोकः । व्याकरणे च पदान्येव संस्क्रियन्ते न वाक्यानि, तेन न तदायत्तो वाक्य साधुत्वप्रत्ययः । वाक्यं च न केवलं साध्विष्यते साधीयश्च, साधिष्ठमपि चेष्यते । इदं च तारतम्यं शिष्टप्रयोगतोऽवसातव्यं भवति नान्यतः । अनलङ्कर्मीणं तत्र व्याकरणम् । नैतदेव । एवं नाम व्यवस्थितो वाग्व्यव- हारो यत्तत्रादृतो जनः शास्त्रमपि नाद्रियते । तदेतद्भगवन्तो भाष्यकारा इत्थङ्कारं निदर्शयन्ति -देवश्चेद् वृष्टो निष्पन्नाः शालयः । तत्र भवि