पृष्ठम्:शब्दापशब्दविवेकः.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५८ ]
सज्दापशदविवेके

sस्तिनऽध्याहृतया क्रियया योगः स्यात् । अनिष्टार्थश्च प्रसज्येत । ५–-अतटो भृगुर्भवति । प्रपातोऽपि । प्रकृते तु प्रपतनं प्रपात इति क्रिया- शब्दः। तेन अतटात् प्रपातमिति साधु स्यात् । अथचाऽविद्यमानतटमितिं शुद्धयौगिकत्वमङ्गीकृत्य प्रपातविशेषणमभ्युपेयम् । ६–स्युत्तरपदे व्यास्र पुंगवर्षभकुब्जराः। सिंहशादूलनागाढः पुंसि श्रेष्ठार्थगोचराः ॥ इत्यमरा दुत्तरपद एघामी श्रष्टार्थस्य वाचकः । तेन नूपुङ्गवा इति वक्तव्यम् । औरामायणे त्वनेकत्र स्वातन्त्र्येण प्रयोगः । तद्यथा-प्लवङ्गमनामृषभेण युद्ध (६५९१ ) इत्यादि। ७–भिन्न विषया येषां ते भिन्नविषया प्रन्थाः। प्रश्नाचे गुणवचनस्येत्यनेन द्विरुक्तौ तु भिन्नप्रकाराः किञ्चिद्भिन्ना इत्यर्थः प्रतिपद्यत । बहुत्रीहिरेवात्रेष्टार्थसमर्पको न तु कर्मधारयः।

_____

व्यासोक्त्यधिकार एकादशः।

१–स्वस्य समजस्य च पत्तनस्य च विश्वस्य चाप्यभ्युदयं कामयन्ते सन्त इत्येवं न्यसनीयम् । द्वन्द्वे च सर्वनामसंज्ञानिषेधाद् विश्वेषामिति । प्रामादिकम्। २–आयुः सहस्र वषण्यासीदित्येवं व्यासेन वक्तव्यम् । विधेयेन समासो नेति स्मरणीयम् । ३–मनोहरो नाम नापित इत्येवं व्यासोक्तिरेव साध्वी । विशेषणं विशेष्येण बहुलमित्यत्र बहुलग्रहणादत्र समानाधिकरणसमासो न। अर्जुनः कार्तवीर्यं इतबन्। ४-सम्मतशब्द इष्टापरपर्यायः । मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमानेऽत्र क्तः । तेन च पूजाया- मिति षष्ठीसमासनिषेधात्सर्वलोकस्य सम्मत इति वाच्यम् । ५-समासे सुप्तणं गुणीभूत इत्युहूततायै व्यासेन वक्तव्यम् । सुप्तां भावनाम् इति । ६–दीनैः सहैकतामिति पृथक् पदत्वमाश्रयणीयम् । अविहितश्चायं सहार्थे तृतीयया समासः शास्त्रेणेति नादरणीयः। ७–प्रत्येकं प्राधान्यख्यापनाय पाद्यम् अघ्र्यमाचमनीयमिति पृथक्स्वमाश्रयणीयम् । तथैव त्रैविध्यं जलस्याभिव्यक्तं भवति । विशेबणसमासे त्वेकस्य विशेषणत्वेऽपरस्य विशेष्यत्वं स्यात्जैविध्यं च विहतं स्यात् । ८–प्रमीतपतिपत्नीकावितुिं