पृष्ठम्:शब्दापशब्दविवेकः.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५४ ]
शब्दापशब्दविवेके

समासन्पुसकताऽधिकारोऽष्टमः ।

१–सभा राजामनुष्यपूर्वेति समासस्य नपुसकवे नृपतिसभम् इति साधु । २छाया बाहुल्ये इति च्छायान्तस्तपुरुषो नपुसकं भव तीति इक्षुच्छायनिषादिन्य इत्येव साधु । अत्र सुत्रे पूर्वंपदार्थस्य बाहुल्य मभिप्रेयते । ३–उपज्ञोपक्रमं तदद्याचिख्यासायामिति नपुसकर मदु पज्ञसित्येव साधु । सत्यपि तदादित्वे यदि तस्य विवक्षा नास्ति, तदा समासस्य नपुसकता नेति न दोषः । भवति च सतोप्यविवक्षा यथा नुदरा कन्यका। ४–अशाला चेत्यनेन सभान्तस्य तत्पुरुषस्य नपुंसक तायां हस्त्रो नपुसके प्रातिपदिकस्येति ह्रस्वत्वे स्त्रीसभमिति निरवद्यम् । --स.न्द्र तरुच्छाये इति वक्तव्यम् । अत्र पूर्वपदार्थस्य बाहुल्यमिति छया बाहुल्ये इत्यनेन प्रवर्तितव्यम्। ६–द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् इति समाहारद्वन्द्व स नपुंसकमिति नेत्रश्रवणमासे इति वक्तव्यम् । ७–न दधिपयआदीनीति एकवद्भवनिषेधे उलूखलमुसले इति द्विवचनं प्रयोज्यम् । ८–येषां च विरोधः शाश्वतिक इत्येकवद्भावे स नपुसक 'मिति नपुसकत्वे च काकोलूकस्येत्येव साधु। ९-शशस्योषंति शशो र्णम्। स्थूणोर्णा नपु'सके च। गृहशशाभ्यां क्लीबे इति लिङ्गानुशासन मेतस्य साधुत्वे मनम् । १०-चञ्चुभिः सहिताश्चरणाश्चञ्चुचरण इति शाकपार्थिवादियं कल्पनीयम् । अन्यथा प्राण्यङ्गत्वादेकबद्।वे चञ्चु- चरणेनेति स्यात् । समासाश्रयविधिपरिशेषाधिकारो नवमः । १–पेबासवाहनधिषु चेत्युदकस्योदभावे उपेषमित्येव साधु । २-उदकस्योदः संज्ञायाम् (६।३५७ ) । उत्तरपदस्य चेति वक्तव्य मित्युदकशब्दस्योदभावेऽच्छदमित्येव साधु। ३--प्रकृत्याशिषीति सह; शब्दः प्रकृत्या स्यादिति सहभर्तृकार्ये इति साधु। ४–मातृपिच्यध्याप्रका इति साधु । न ह्ययमृकारान्तानां द्वन्द्वः । अध्यापकशब्दोऽत्रोत्तरपम् ।