पृष्ठम्:शब्दापशब्दविवेकः.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ २५१
पूर्वनिपातपरनिपातधिकारः

मिति नाम्न्यादिशिग्रहेरिति णमुलि रूपम् । 'उपपदसमासः । तत्र सह शब्देन समासान्तरमनर्थे कम्। ५३–पदमकरन्दम् इत्यसमर्थसमासः । मुकुन्दस्येमे पदे मौन्दे। पदं व्यवसितत्राणस्थानलक्ष्माग्निवस्तुष्चि ‘त्यमरः । मुकुन्दपदमकरन्दमिति तु निरवद्यम् । मौकुन्दपदमकरन्दमित्यपि न श्रयः । समासवृत्त्यैव विवक्षितार्थस्य समर्पणात् तद्धितवृत्त्या नार्थः । एकत्र वृत्तिद्वयाङ्गीकारे गौरवात् । ५४–प्रतिकोणम् । कोणी कोणं प्रति प्रतिकोणमित्यव्ययीभावः। भारतस्येति षष्ठन्तं विशेषणम् । सत्यस्मि न्विशेषणे समासो न, सति च सुमासे विशेषणयोगो नेति कोणे कोण इति वक्तव्यम् ।

_____

पूर्वनिपातपरनिपाताधिकारः पञ्चमः ।

१–द्वन्द्वे चिं’ इति, अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे इति } शास्त्राभ्यां कृमिपक्षिमृगादीनि, कृमिमृगपच्यादीनि इति चोभयं साधु। { यदि मृगाणां पक्ष्याद्यपेक्षयाऽभ्यर्हितस्वमभिप्रेयते तदा मृगशब्देन पूर्वं । निपतितव्यम् । २–उत्तमवलमित्येव न्यासः साधुः । सन्महत्परमोत्त मोस्कृष्टाः पूज्यमानैरिति समासः। उत्तमशब्द उपसर्जनमिति तस्य पूर्व- निपात उचितः। ३-वर्णानामनुपूव्र्येणेति वचनद्विप्रक्षत्रविट्क्षण- मित्येवं न्यासो युक्तः । शूद्रादिक्रमेणाभिधानं बधस्यामङ्गलत्वादिति । कुल्लूक भट्टः। ४-अल्पाच्तरमिति शूलशब्दस्य पूर्वनिपातः परशोश्च । परनिपातः । शेषेऽनयमः । प्रहरणार्थेभ्यः परे निष्ठासप्तम्याविति भूत- 'शब्दस्य निष्टान्तस्य परनिपातः । ५प्रहरणार्थेभ्य इत्यस्युद्यत इति स्यात् । आहिताग्न्यादित्वाद्वा निष्ठायाः परनिपात इति पक्षे उद्यतासि- ।। ई रित्यपि साधु। ६- -पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेनेति सम।से एकशब्दस्योपसर्जनसंज्ञायां पूर्वनिपाते एकमुहूर्तमिति साधु स्योत् । ७-भसितं भस्मेत्यनर्थान्तरम्। शरीरे भसितं येषां ते शरीर भसिता इति वाच्याः स्युः। सप्तमीविशेषणे बहुनीहाविति सप्तम्यन्तस्य