पृष्ठम्:शब्दापशब्दविवेकः.djvu/१७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
( १५ )

 केचन धातवो धातुपाठे स्पष्टमकर्मकाः पठिताः। अर्थनिर्देशो हि तथालक्षणोऽभूत् । तथापि लोके सकर्मका अपि ते दृष्टाः । त एते भवन्ति-श्च्युतिर् क्षरणे,दु द्रु गतौ, स्त्रु गतौ, क्षर संचलने, स्यन्दू प्रस्रवण इति । पटलं श्च्योताति। एतास्ता मधुनो धाराः श्च्योतन्ति सविषास्त्वयि ( उ० रा० च० ३।३४ )॥ अत्र श्च्युतिरकर्मकः । लोचनेना- मृतश्च्युता (कथास० १०१।३०४) इत्यत्र च सकर्मकः । अग्न्यातप- सम्प्रयोगाद् द्रवति घृतमित्यत्र द्रवतिरकर्मकः । रक्षांसि भीतानि दिशो द्रवन्तीत्यत्र गीतासु तु सकर्मकः। अवस्रवेदघशंसोऽवतरमित्यत्र (ऋ० १।१२६।६) स्रवतिरकर्मकः । स्रवत्यनोङ्कृतं पूर्वं पश्चात्तु विशीर्यत इति मनुवचने ( २।७४), धनाद्धि धर्मः) स्रवति शैलादधि नदी यथेत्यत्र, नहि निम्बात्स्रवेत्क्षौद्रम् (रा० २।३५।१७ ) इत्यत्र चाकर्मकः। स्वरेण तस्याममृतस्रुतेव प्रजल्पितायामभिजातवाचि इति कुमारे (१।४५ ) कुञ्जरेण स्रवता मदम् इति कथासरित्सागरे । नहि मलयचन्दनतरुः परशुप्रहतः स्रवेत् पूयम् इति ( ) च सकर्मकः । तपः क्षरति विस्मयाद् इत्यत्र (मनौ ४|२३७ ), तेनास्य क्षरति प्रज्ञेत्यत्र ( मनौ २।९९॥)च क्षरतिरकर्मकः। आपश्चिदस्मै घृतमित्क्षरन्ति ( अथर्व० ७।१७।२) तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ( मनौ २।१०७)। यो येनार्थी तस्य तत्प्रक्षरन्ती वाङ्मूर्तिर्मे देवता संनिधत्ताम् इत्यत्र ( बा० रा० १।१४) च सकर्मकः । स्यन्दन्ते सरितः सागराय न च सर्वाः समुद्रगा भवन्ति । तीव्र' स्यन्दिष्यते मेघैः ( भट्टौ १६।७) मत्स्या उदके स्यन्दन्ते । शिरामुखैः स्यन्दत एव रक्तम् ( नागानन्दे ५।१६) इत्यत्र स्यन्दतिरकर्मकः। सस्यन्दे शोणितं व्योम इत्यत्र ( भट्टो १४।९८) च सकर्मकः । अत्र सर्वत्र सकर्मकत्वमन्तर्भावितण्यर्थत्वादुपपादयन्ति । एवं शुच शोक इत्यनुपसृष्टः केवलोपि सकर्मको दृष्टोऽकर्मकश्च । तद्यथा अथैनमद्रेस्तनया शुशोच ( रघौ २।३७ ) । किं शोचतेहाभ्युदये बतास्मान् (भट्टौ ३।१२) इत्यत्र शोचतिः सकर्मकः । शोचन्ति जामयो यत्र विनश्य त्याशु तत्कुलमित्यत्र मनौ (३।५७) चाकर्मकः । सोपसर्गकस्तु नैयत्येन