पृष्ठम्:शब्दापशब्दविवेकः.djvu/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ८ )

 आतश्च लोकाश्रयो लिङ्गावसायः । स्थूणेति टाबन्तं स्त्रीलिङ्गम्, गृह स्थूणमिति च नपुंसकम्। ऊर्णेति स्त्रियां नियतम्, शशोर्णमिति च क्लीबे । इह परवल्लिङ्ग द्वन्द्वतत्पुरुषयोरिति शासनमतिक्रम्यते लोकरच प्रमाणी- क्रियते।

 क्वचित्तु समानार्थत्वेपि प्रत्ययमात्रकृतो लिङ्गभेदो दृश्यते यदुच्यते स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते ऽपीति । तद्यथा—सन्निधिः पुमान् , सान्निध्यं नपुंसकमिति ष्यञ्कृतो भेदः। रक्षो नपुंसकम्, राक्षसः पुमान्। गायत्री स्त्री भवति गायत्रं नपुंसकम् । अनुषुप् स्त्री भवति, आनुष्टुभं नपुंसकम् इत्यण्कृतः । स्मृतयः प्रमाणं वेदाश्च प्रमाणतरा इति तरप्प्रत्ययकृतः ।

 अन्यत्र च समानेपि प्रत्ययेऽर्थभेदाल्लिङ्गभेदः । तद्यथा-तयप्प्रत्ययान्तं धर्मवृत्ति स्त्रीनपुंसकयोः। वर्णानां चतुष्टयी, वर्णानां चतुष्टयम् । वेदानां त्रयी, वेदानां त्रयम् । धर्मिवृत्ति तु वाच्यलिङ्गम्—त्रय्यः स्थितयः, त्रयो लोकाःत्रयाणि जगन्ति ।

 धातुनिर्देशे याविक्श्तिपौ तदन्तं पुंसि—अयं वृधिः । अयं पचतिः ।

 अव्ययं नपुंसकं भवत्यव्ययीभवश्च । शोभनं शवः। । इदं तिष्ठद्गु कालः । स्वरपि मे न मनोहरमुत्त्रसत्पृषतलोचनया रहितं त्वया । अत्र मनोहरमिति च रहितमिति च विशेष्यनिघ्नतया नपुंसकम् ।

 इदं चात्र शब्दस्वाभाव्यमालोच्यताम् । प्रतिहारीति स्त्रीलिङ्गो द्वार पालं द्वारपालिकां चाप्याह । प्रमाणयन्ति चैतदभिधानकृतः--द्वारि द्वाःस्थे प्रतीहारः प्रतीहार्यप्यनन्तर इति । अयं पुंव्यक्तावपि स्त्रियामिति टीकाकारो महेश्वरः। शिवेति श्रृगालं श्रृगालीं चापि समं ब्रूते । आह च स्वामी-- अयं श्रृगालेपि स्त्रीलिङ्गः । होत्रेति स्त्रियां नियतमेव ऋत्विगर्थे वर्तते । अमित्रशब्दः शत्रुपर्यायः स्त्रीपुंसयोर्नियतः । अमित्रा मित्ररूपेयं पाणि गृहीती ममेति श्रीरामायणे ( ) ।

 सङ्ख्यामधिकृत्य न बहु वक्तव्यमस्ति । एकत्वादीनां वाचिका विभक्तयो यथाविषयं प्रवर्तन्ते । परं क्वचिदेकत्वेपि बहुवचनं श्रूयते । कथं