४
शाब्दनिर्णयः।
हारात्१ । किञ्च, अनुपपत्त्या विषयाक्षेपे यं कञ्चिद् विषयमवलम्बेत । अर्थो व्यावृत्तश्चेदर्थ एव तर्हि तद्गोचरोऽव्यभिचारात् । सविकल्पके चार्थमात्रेऽभिलापविशेषानुषङ्गाद् , विवक्षादेरनुमेयतयान्यथासिद्धेः । तद्वाचकपदाभावादपदार्थस्य वाक्यार्थत्वेऽतिप्रसङ्गाच्च। तस्माद् यथासामर्थ्यज्ञानमर्थ २एव शब्दगोचर इति ॥ ७ ॥ इदानीमनुमानपक्षं निराचष्टे-
स्वभावकार्ये न स्यातां देशादिनियमोऽपि न ।
नानुमा शक्तिसम्बन्धान्नेक्ष्यते पक्षधर्मता ॥ ८॥
त्रिरूपाणि त्रीण्येव लिङ्गानि स्वभावकार्यानुपलब्धयः। तत्र न तावच्छब्दार्थयोरनुपलब्धिः सम्बन्धः,भावरूपत्वात् । गोत्वस्याप्रतिपत्तावगोत्वव्यावृत्त्यसिद्धे:३ कल्पनायोगाच्च नापोहः शब्दार्थः । नापि वृक्षत्वशिंशपात्वयोरिव तयोः स्वभावानुबन्धः, एकार्थसमवायेन तादात्म्याभावात् । न च विवक्षादिनाप्येकार्थसमवायः, एकदेशानुपलब्धेः । नापि धूमाग्न्योरिव कार्यकारणता, प्रमाणाभावात् । नापि विवक्षामात्रप्रभवः शब्दः। गोविवक्षाप्रभवो गोशब्द इति चेद्, विवक्षाविषयस्य गोशब्देनाभिलापः कथं , तस्य तदवगम्यत्वाभावे तद्विवक्षाजन्यत्वात् (इति चेन्न?)। अर्थस्यावस्तुत्वेनाहेतुत्वाभ्युपगमात्४ । सविकल्पके च तावन्मात्रेऽभिलापसंसर्गात् तत्रैव सम्बन्धज्ञानाच्छब्दस्य विवक्षादिजन्यत्वेऽप्यर्थेऽपि बोधकत्वसम्बन्धो
१. ‘त् । अनु' क. पाठः २. ‘र्थो गोचर एवेति । ', ३. ‘त्व- या', ४. ‘त्वस्याभ्यु' ग. पाठः.