२
शाब्दनिर्णय:।
शाब्दप्रमाणस्वरूपाधिगमाधीना तस्य विषयविशेषे सामर्थ्यावधारणेति शाब्दप्रमाणस्वरूपं निरूपयितुं लोकप्र- सिद्धमेव१ तल्लक्षणमनुवदति-
शब्दविज्ञानजा यार्थेऽसन्निकृष्टे सुनिश्चिता ।
बुद्धिस्तच्छाब्दमानं हि सङ्गिरन्ते विपश्चितः ॥५॥
शब्दविज्ञानादसन्निकृष्टेऽर्थे बुद्धिः शाब्दप्रमाणमिति २ सङ्ग्रह: ॥ ५ ॥ तल्लक्षणोपनिविष्टानां विशेषणानां निवर्तनीयानि म- तान्तराणि दर्शयति –
वक्तुर्विवक्षा मानं वा विषये लिङ्गतोऽपि च
बुद्धिर्मानान्तरेच्छा च निवार्यन्ते विशेषणैः ॥ ६ ॥
अत्र केचिदाहुः- वक्तुर्वाक्यार्थविषये विवक्षां प्रमाणान्तरं वा समधिगमयन्ति शब्दाः, नार्थमात्रम् । तयोश्च शब्दसमधिगतयोरर्थव्यवहारहेतुत्वमिति ३। तदुक्तं धर्मकीर्तिना – 'वक्तुरभिप्रेतं तु सूचयेयुरि'ति । तान् प्रत्याह – अर्थे बुद्धिरिति । यदपि मतं द्वे एव प्रमाणे प्रत्यक्षमनुमानं च। अतो न शाब्दादेव केवलादर्थसमधिगम:४। किन्त्वर्थेनानुब- न्धवतो लिङ्गात् । तदुक्तं -
‘‘प्रत्यक्षमनुमानं च प्रमाणे सदृशात्मना ।
अप्रत्यक्षस्य सम्बन्धादन्यतः प्रतिपत्तितः ॥"
१. ‘कसि’, २. ‘ब्दमि’, ३. ‘र्थे’ ग. पाठः ४. ‘ति:’ क. पाठः