पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/३६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्

३२

शाब्दनिर्णयः।

अनधिगतार्थविषयताभावादिति चेद् , इतरत्रापि संस्कारजन्यत्वे तथात्वं केन वार्यते । तत्राह- वर्णपक्षेऽन्त्यपदप्रत्य यानन्तराशेषपदावमर्शिस्मृतिज्ञानं संसर्गनिमित्तं महावाक्ये- ऽशक्यसम्पादनमिति ज्ञानानपेक्षा: संस्कारा एव तद्धेतव इति । नैतत् सारं, महावाक्ये न शाब्दी प्रमितिः । किन्त्ववगतसंसर्गाणामेकप्रयोजनसम्बन्धितयान्वयोऽर्थनिबन्धन एव। यत्र पदैकवाक्यता तत्रैव शाब्दी प्रमितिः। तत्र चाल्पत्वात् पदानां नानुसन्धानानुपपत्तिः । इतरस्यापि संसर्गप्रमितेः सविकल्पकत्वात् तद्वाचकाशेषपदानुषङ्गो न शक्यते निराकर्तुम्। अशेषपदावमर्शसिद्वये च वाक्यं पुनः पुनः पठ्यते । संस्कारपक्षे तेषां सकृदुत्पत्तेर्न पुनः पुनः पठनापेक्षा। क्रमोपलब्धाशेषपदावमर्शिस्मृत्युदये संस्कारप्रचयापेक्षा लोकेऽन्वयव्यतिरेकसमधिगता। अनन्वयिपदाव्यवहितमेकमिदं वाक्यमिति समस्तपदानवमर्शो नोपपद्यते । संसर्गप्रत्ययान्यथानुपपत्त्या वा समस्तपदवमर्शःकल्प्यताम् । सम्बन्धग्रहणे च समस्तपदावमर्शाभावे न संसर्गसामर्थ्यप्रतिपत्तिः । तस्मात् पदबृन्दस्मृतेरेव संसर्गप्रतिपत्तिः। योऽप्यन्त्यपदार्थावगमानन्तरमशेषपदार्थावमर्शं संसर्गहेतुं कल्पयति , तस्यापि सविकल्पकतया पदावमर्शस्य तद्वाचकाशेषपदावमर्शे वक्तव्ये किमुभयानुस्मरणेन कल्पितेन । तस्मात् समस्तपदावमर्शादेव संसर्ग इति स्थितम् ।


१. ‘अ’ क. पाठः२. ‘ये वा’ ख. पाठः३. दाम' ख. ग. पाठः .