पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः ।

विशेषाभिधायिनः, तथेहापि श्रोत्रग्राह्यत्वं तटस्थमेवावलम्ब्य विशेषानेव शब्दशब्दोऽप्यभिधत्ताम् । तन्न । अनवगतोपाधावौपाधिकाभिधानपरामर्शानुपपत्तेः । न हीदानीमुपलभ्यमा- नेऽपूर्वे शब्दविशेषे तत्परामर्शः, श्रोत्रतज्ज्ञानतद्ग्राह्यत्वा- नामनध्यक्षत्वात् । प्रथमप्रत्यये च तत्राभिधानमनुरज्यते । ननु विषयसंवेदनानुमितेन श्रोत्रग्राह्यत्वेनोपलक्षिते तस्मिन्नभिधा नपरामर्शः स्यात् । न । श्रोत्रग्राह्यतया पूर्वप्रतिपन्नसमाना कारविषयतदभिधानविकल्पानुपक्तावगममन्तरेण तद्ग्राह्यतानुमानायोगात् । न हि संवेद्यमात्रसंवेदनं तद्ग्राह्यतावगमहेतुः । न हि तदानीमेवान्वयव्यतिरेकाभ्यां तद्ग्राह्यतावगन्तुं शक्यते, इन्द्रियान्तराणामपि सन्निधानात् । न चेन्द्रियान्तरग्राह्यवैलक्षण्येन तद्ग्राह्यतानुमानं, तद्ग्राह्यान्तरादपि वैलक्षण्यस्य भावात्।सालक्षण्ये च सामान्यसिद्धेः । न चोपाधेरप्येकत्वमस्ति, श्रोत्रादीनां भिन्नत्वात् । नित्यानुमेयेषु सामान्यायोगात् । अतोऽपूर्वशब्दोपलम्भेऽप्यभिधानानुषङ्गाय शक्तिभेदपरिहाराय श्रोत्रग्राह्यतावगमाय च श्रोत्रप्रथमप्रत्ययावगम्यं सामान्यमेवोपगन्तव्यम् । ननु सामान्यं प्रत्यभिज्ञानाधीनात्मलाभं तदभावे नावकाशमर्हति । न तावत् सोऽयमित्यवमर्शप्रत्यभिज्ञा प्रसिद्धसामान्येऽप्यस्ति । यदि बुद्धावाकार- मात्रानुसन्धानमस्त्येव, तर्हि शब्दं दृष्टवतः शब्दान्तरेऽर्थाद्


१. ‘धावभि, २. ‘त्वादीना', ३. ‘दनेना’ क. पाठः ४. ताया अनु’, ५. ‘द्धिः । न’ क. पाठः ६. ‘मप्यस्ति’ क. पाठः ७. ‘च प्र' ग. पाठः