पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

४०

शाब्दनिर्णयः।

सामर्थ्यविषयनियामकत्वमन्वयव्यतिरेकौ गमयतः । एवं तर्हि सत्येव कार्यज्ञाने प्रवृत्तिसिद्धया वाक्यार्थज्ञानमनुमाय तत्र सामर्थ्यज्ञानादन्यथा चाज्ञानात् तदन्वयव्यतिरेकावन्यथासिद्धौ । न च तस्य सर्वशब्दसामर्थ्यविषयनियामकत्वं गमयतः। तस्माद्न्यान्वितेसामर्थ्यम् । ननु यदि कार्यतादेरन्वयव्यतिरेकवतोऽपि सर्वशब्दसामर्थ्यविषयनियामकत्वं परित्यज्योपायतयान्यथासिद्धिरुच्यते, उच्यतां तर्हि संसर्गस्यापि शब्दसामर्थ्यविषयताभावः। नैतत् सारम् । पदव्यतिरिक्तं वाक्यं पदप्रतिबुद्धपदार्थान् वा संसर्गहेतूनवलम्ब्य तत्प्रत्ययस्यान्यथासिद्धिर्वक्तव्या । तयोश्च पक्षयोः शक्तिकल्पनागौरवात्, पदार्थानां च प्रमाणपक्षसङ्गमाभावादिति वर्णितदोषत्वाच्छब्दनिबन्धन एव संसर्गप्रत्यय इति कल्प्यते ॥ ४९ ॥

किञ्च

कार्यान्विते च शब्दार्थं कार्यं केनान्वितं भवेत्।

गुणद्रव्यादिशब्दानां साक्षात् कार्येण नान्वयः ॥ ५० ॥

कार्यपदव्यतिरिक्तानां कार्यान्विते सामर्थ्यम् । कार्यस्य

तु स्वरूपेऽन्यान्विते वेति द्वैरूप्यपरिहारायान्यान्विते सामर्थ्यमित्येकमेव प्रयोजकमुपादेयं, कार्यस्य कार्यान्तराभावात् । योऽपि कार्यान्वयान्विते सामर्थ्यमिति बकबन्धमिव प्रयोजकमाह , तस्यापि बहुविशेषणं प्रयोजकमिति दोषः । योऽपि


१. ‘दन्वि' गः पाठः २.‘श्च शब्दयोः प', ३. ‘कार्यान्वि', ४. ‘वै' क. पाठः