पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

।। श्रीः॥

॥ देवीभुजंगस्तोत्रम् ॥


विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः
 समूढे महानन्दपीठे निषण्णम् ।
धनुर्वाणपाशाङ्कुशप्रोतहस्तं
 महस्त्रैपुरं शंकराद्वैतमव्यात् ।। १ ॥

यदन्नादिभिः पञ्चभिः कोशजालैः
 शिरःपक्षपुच्छात्मकैरन्तरन्तः ।
निगूढे महायोगपीठे निषण्णं
 पुरारेरथान्तःपुरं नौमि नित्यम् ।। २ ।।

विरिञ्चादिरूपैः प्रपञ्चे विहृत्य
 स्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा ।
तदा मानमातृप्रमेयातिरिक्तं
 परानन्दमीडे भवानि त्वदीयम् ।। ३ ।।